भारतकोश
बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

Bijaganitam of Bhaskaracharya II with Hindi Commentary

भास्कराचार्य द्वितीय द्वारा

DevanagariHindipublished152 पृष्ठ

पृष्ठ 73, कुल 152 में से

संदर्भ में पढ़ें
पृष्ठ 73

७४ बीजगणिते तद्दर्शनम् । उदाहरणम् । चत्वारिंशद्युतिर्येषां दोःकोटिश्रयसां वद । भुजकोटिवधो येषु शतं विंशतिसंयुतम् ॥ १८ ॥ अत्र किल भुजकोट्योर्वधो द्विगुणः = २४० । तद्युतिवर्गस्य वर्गयो- श्चान्तरं यो हि भुजकोट्योर्वर्गयोगः स एव कर्णवर्गः । अतो भुज- कोटियुतिवर्गस्य कर्णवर्गस्य चान्तरमिदं २४० योगान्तरघातसमं स्यात् । अत इदमन्तरं २४० योगेनानेन ४० भक्तं जातं भुजकोटियु- तिकर्णान्तरम् = ६ । "योगोऽन्तरेणोनयुतोऽर्धित" इत्यादिना संक्रमणेन जातो भुजकोटियोगः = २३ । कर्णः = १७ । "चतुर्गुणस्य घातस्य" इति भुजकोटियुतिवर्गादस्मात् ५२९ चतुर्गुणघातेऽस्मिन् ४८० शोधिते शेषं जातो दोःकोट्यन्तरवर्गः = ४९ । अस्य मूलम् ७