बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 84, कुल 152 में से
संदर्भ में पढ़ेंअनेकवर्णसमीकरणम् । ८५ कल्पितम्। अनेन पीतकमुत्थाप्य रूपेषु प्रक्षिप्य जातम् का=नी २ रू १४ (१) अतः कुट्टकविधिना लब्धिगुणौ सक्षेपौ लो २ रू १४=ल० लो १ रू ०=गु० यावत्तावदुन्माने स्वस्वमानेन कालकादीनुत्थाप्य स्वस्वच्छेदेन विभज्य लब्धं यावत्तावन्मानम् या=लो १ रू २ । लोहितकमिष्टं रूपत्र- येणोत्थाप्य जातानि यावत्तावदादीनां मानानि १, ८, ३, ४ । एभिर्मौ- ल्थानि जीवाश्चोत्थापिताः (पारावतादयः शतान्तर्वर्त्तिनः) । पक्षिणः ५, ५६, २४, १२ । मौल्यानि ३, ४०, २१, ३६ । अथवा चतुष्केणेष्टेन मानानि २, ६, ४, ४ । उत्थापिते जाताः पक्षिणः शतान्तर्वर्त्तिनः १०, ४२, ३६, १२ । मौल्यानि ६, ३०, २८, ३६ । अथवा पञ्चकेन मानानि ३, ४, ५, ४ । एभिरुत्थापने कृते जाताः पृ १५, २८, ४५, १२ । } एवमिष्टवशादनेकधा (२) । मौ ९, २०, ३५, ३६ । } उदाहरणम् । षड्भक्तः पञ्चाग्रः पञ्चविभक्तो भवेच्चतुष्काग्रः । चतुरुद्धृतस्त्रिकाग्रो द्वयग्रस्त्रिसमुद्धृतः कः स्यात् ॥ ६ ॥ अत्र राशिः या १ । अयं षड्भक्तः पञ्चाग्र इति षड्भिर्भागे ह्रिय- नी = लो १ रू० , लो १ रू० , लो १ रू० , लो १ रू० , लो १ रू०, पी = लो ० रू१ , लो ० रू२ , लो ० रू३ , लो ० रू४ , लो ० रू५ अत्र संख्यात्मकं धनमानार्थं प्रथममानत्रयमकिञ्चित्करं चतुर्थे लोहितकस्य ३, ४, ५, ६ एभिरुत्थापने कृते चत्वारि मानानि, पञ्चमे च लोहितकस्य १, २, साभ्यामुत्थापने कृते मानद्वयम् । एवं यावत्तावदादीनां षण्मानान्वेव भवन्ति भास्कर- प्रदर्शितगणितेन । (१) वि० टी०—यद्वा भाज्ये रूपमात्रं हरस्तत्र कुट्टकवचनमप्रमेय । भाज्य- स्याल्पत्वात्पूर्वं वर्णान्तरेणोत्थाप्य भाज्यपूर्ववर्णमानानि गुणेन हन्यन्ते । (२) वि० टी०—अत्र निष्पार षोडशौयेति ।