संक्षिप्त ब्रह्माण्ड पुराण (खण्ड १ व २)
Brahmanda Purana
महर्षि वेदव्यास द्वारा
पृष्ठ 891, कुल 893 में से
संदर्भ में पढ़ें४८२ ] [ ब्रह्माण्ड पुराण
उच्चैर्घोषाक्रन्दयन्तौ पतीनां च पतिस्तथा । कृत्स्नवीतश्च धावश्च सत्त्वानां पतिरेव च ॥१३ एते द्वादश पत्रस्थाः पञ्चमावरणस्थिताः । सहमानश्च निर्व्याधिरव्यधीनां पतिस्तथा ॥१४ ये तो षट्कोणों में स्थित हैं और अष्ट कोणों में बहुत से हैं । निर्व्याधि—हरिकेश—उपवीती—पुष्टों के पति—भव—हेति हैं । दश पत्र आवरण में प्रथम जगतों के पति हैं ।८-६। रुद्र-अततावी—क्षेत्रपति—तथा सूत—अहंतु अन्य पति—रोहित और स्थपति हैं ।१०। अन्य वृक्षों का पति—ये धनुष को सुसज्जित रखने वाले हैं । मन्त्री-वाणिज-कक्ष पति-भवन्ति चौथा और पांचवां वाग्विस्तत है । औषधियों के पति-छठवां हे कलश सम्भव है ।११-१२। उच्चैर्घोष-आक्रन्दयन्त तथा पतियों का पति है । कृत्स्नवीत-धाव-सत्वों का पति—ये इतने द्वादश पत्रों में स्थित हैं जो पञ्चम आवरण में वर्तमान रहते हैं । सहमान निर्व्याधि-के पति हैं ।१३-१४।
ककुभश्च निषंगी च स्तेनानां च पतिस्तथा । निचेरुश्चेति विज्ञेयाः षष्ठावरणदेवताः ॥१५ अधः परिचरोऽरण्यः पतिः किं च सृकाविषः । जिघांसन्तो मुष्णतां च पतयः कुम्भसम्भव ॥१६ असीमंतश्च सुप्राज्ञस्तथा नक्तंचरो मुने । प्रकृतीनां पतिश्चैव उष्णीषी च गिरेश्चरः ॥१७ कुलुञ्चानां पतिश्चैवेषुमन्तः कलशोद्भव । धन्वाविदश्चातन्वानप्रतिपूर्वंदधानकाः ॥१८ आयच्छतः षोडशैते षोडशारनिवासिनः । विसृजन्तस्तथास्यंतो विध्यंतश्चापि सिंधुप ॥१९ आसीनाश्च शयानाश्च यन्तो जाग्रत एव च । तिष्ठन्तश्चैव धावन्तः सभ्याश्चैव समाधिपाः ॥२० अश्वाश्चैवाश्वपतय अव्याधिन्यस्तथैव च । विविध्यंतो गणाध्यक्षा बृहन्तो विध्यमर्हन् ॥२१