भारतकोश
ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)

Brahmasphuta Siddhanta of Brahmagupta with Commentary

आचार्य ब्रह्मगुप्त द्वारा

DevanagariHindipublished737 पृष्ठ

पृष्ठ 28, कुल 737 में से

संदर्भ में पढ़ें
पृष्ठ 28

( १२ )

प्रवृत्तिः। कालमानानां परिभाषाः सर्वाः, ग्रहाणां भगणाः, युगानां मन्वादीनां नामानि मानानि च ब्रह्मणो गतवर्षादेः प्रयोजनाभाव इत्यादि सर्वमपि मध्य- माधिकारोक्तं श्रीपतेः साधनाध्यायोक्तश्लोकानां श्लोकान्तरमात्रमेवाकरोत्। सुधियो ग्रन्थाभ्यन्तरे ग्रन्थकारयोरानुरूप्यमवलोकयन्तु। एवं प्राचीनकृतेरनेकान् विशेषान् प्रवक्तुमेव श्रीपतिः प्रथमं (साधनाध्यायं) ग्रहभगणाध्यायं वा कृतवान्। तत्परं मध्यमाध्यायेसप्तभिः प्रकारैरहर्गणानयनं, कदा प्रभृति वारप्रवृत्ति- रित्यत्र बहूनामाचार्याणां मतानि, तद्दूषणपुरःसरस्वाभिमतवारप्रवृत्तिकथनं, मध्यमग्रहसाधनार्थं बहून्यैव नूतनानि प्रकारान्तराणि, रव्यादीनां सर्वेषामपि ग्रहाणां राश्यादिमन्दोच्चकथनमित्यादयो बहवोऽपि श्रीपतिकृता प्राचीनकृते- र्विशेषा वर्त्तन्ते। ब्राह्मस्फुट सिद्धान्ते बहुभिरेव प्रकारैरहर्गणानयनं लघ्वहर्गणानयनं ब्रह्म- गुप्तेन कृतं, आचार्योक्ताहर्गणानयनस्यानुकरणमेव श्रीपतिना कृतम्। परं सिद्धान्त- शेखरे लघ्वहर्गणानयनस्य चर्चा ग्रन्थकृता न कृता। अहर्गणाद्वारज्ञानार्थमहर्गणः सैकः कार्य इति ब्रह्मगुप्तेन श्रीपतिना च कथितः। परमहर्गणो निरेकोऽपि कर्तव्यो वारज्ञानार्थमिति सिद्धान्तशिरोमणौ ‘अभीष्टवारार्थमहर्गणश्चेत्सैको निरेकस्तिथ- योऽपि तद्वदि’त्यनेन भास्कराचार्यः कथयति। वटेश्वरसिद्धान्तेऽपि बहुभिः प्रकारैरहर्गणानयनं लघ्वहर्गणानयनं च तद्ग्रन्थकृता कृतमस्ति। भास्करा- चार्यस्तु महदहर्गणानयनं ‘कथितकल्पगतोऽर्कसमागण’ इत्यादिना, लध्व- हर्गणानयनं च ‘चैत्र सितादिगतस्थिति संघ’ इत्यादिना कृतम्। यद्यपि लध्व- हर्गणानयने स्थौल्यं वर्त्तते तथाप्येकमपूर्वं वस्तु प्रतिपादितम्। वटेश्वरकृतं लध्व- हर्गणानयनं स्थौल्यरहितं नास्ति, एतदतिरिक्तैः प्राचीनाचार्यैर्नवीनैश्च लध्व- हर्गणानयनं न कृतं प्रत्युत कमलाकरेण भास्करकृतलघ्वहर्गणानयनस्य खण्डनमेव कृतम्। स्फुटगत्यध्याये सर्वैरेवार्यभटब्रह्मगुप्त लल्लाचार्यादिभिर्वृत्त- चतुर्थांशे चतुर्विंशतिः क्रमज्या उत्क्रमज्याश्च तत्त्वाश्विन २२५ कलावृद्ध्या साधिता- स्तत्र आर्यभटस्य लल्लस्य च त्रिज्या=३४३८, ब्रह्मगुप्तस्य खमुनिरद ३२७०मिता त्रिज्या, श्रीपतिना चैतद्विन्ना ३४१५ त्रिज्या गृहीता ब्रह्मगुप्तोक्तभूपरिधिः= ५०००, भास्कराचार्यमतेन पादोनगोक्षधृतिभूमितयोजनानीत्यनेन ग्रहाणां योजनगतिः=११८५८।४५। गतियोजनतिथ्यंशः कुदलस्य यतोमितिरित्यनेन भूव्यासः=१५८१, भूपरिधिः=४९६७ ग्रहाणां भुजान्तरकर्म प्रतिपादितमस्ति, सूर्यसिद्धान्तोक्त भुजान्तरकर्मवदेवास्ति, सिद्धान्तशेखरे, सिद्धान्तशिरोमणावपि भुजान्तरकर्मण उपपादनमाचार्योक्तवदेवास्ति, अन्येऽपि बहवो विषयादर्शनीयाः पठनयोग्याश्चेति। त्रिप्रश्नाधिकारे रवेर्मध्यान्हकालिकनतांशान् ज्ञात्वा तद्वशतो रव्यानय- नार्थं प्रथमतः क्रान्तिज्यासमागच्छति। ततोऽनुपातेन रवेर्भुजांशज्ञानं भवति।