भारतकोश
बृहन्नारदीय पुराण (संस्कृत मूल व हिन्दी व्याख्या)

बृहन्नारदीय पुराण (संस्कृत मूल व हिन्दी व्याख्या)

Brihan Naradiya Purana with Sanskrit & Hindi Commentary

महर्षि व्यास द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished1,008 पृष्ठ

पृष्ठ 17, कुल 1008 में से

संदर्भ में पढ़ें
पृष्ठ 17

( ८ ) शृणु विप्र प्रवक्ष्यामि पुराणं नारदीयकम् । पञ्चविंशतिसाहस्रं बृहच्चित्रकथाश्रयम् । पूर्वभाग—प्रथमपाद में— सूतशौनकसंवादः सृष्टिसंक्षेपवर्णनम् । नानाधर्मकथाः पुण्याः प्रवृत्तेः समुदाहृताः । प्राग्भागे प्रथमे पादे सनकेन महात्मना ।। पूर्वभाग-द्वितीयपाद में— द्वितीये मोक्षधर्माख्ये मोक्षोपायनिरूपणम् । वेदाङ्गानाञ्च कथनं शुकोत्पत्तिश्च विस्तरात् । सनन्दनेन गदिता नारदाय महात्मने ।। पूर्वभाग-तृतीयपाद में— महातन्त्रे समुद्दिष्टं पशुपाशविमोक्षणम् । मन्त्राणां शोधनं दीक्षा मन्त्रोद्धारश्च पूजनम् ।। प्रयोगाः कवचं चैव सहस्रं स्तोत्रमेव च । गणेशसूर्यविष्णूनां शिवशक्त्योरनुक्रमात् । सनत्कुमारमुनिना नारदाय तृतीयेके ।। पूर्वभाग-चतुर्थपाद में— पुराणलक्षणञ्चैव प्रमाणं दानमेव च । पृथक् पृथक् समुद्दिष्टं दानकालपुरः सरम् ।। चैत्रादिसर्वमासेषु तिथीनां च पृथक् पृथक् । प्रोक्तम्प्रतिपदादीनां व्रतं सर्वाघनाशनम् ।। पूर्वभागोऽयमुदितो बृहदाख्यानसंज्ञितः ।। उत्तरभाग में— अस्योत्तरे विभागे तु प्रश्न एकादशीव्रते । वशिष्ठेनाथ संवादो मान्धातुः परिकीर्तितः ।। रुक्माङ्गदकथा पुण्या मोहिन्युत्पत्तिकर्म च । वसुशापश्च मोहिन्यै पश्चादुद्धरणक्रिया ।। गंगाकथा पुण्यतमा गयायात्रानुकीर्तनम् । काश्या माहात्म्यमतुलम्पुरुषोत्तमवर्णनम् ।। यात्राविधानं क्षेत्रस्य बहु वाख्यानसमन्वितम् । प्रयागस्याथ माहात्म्यं कुरुक्षेत्रस्य तत्परम् ।। हरिद्वारस्य चाख्यानं कामोदाख्यानकन्तथा । बदरीतीर्थमाहात्म्यं कामाख्यायास्तथैव च ।।