बार्हस्पत्य सूत्र / अर्थशास्त्र (महर्षि बृहस्पति - प्राचीन दण्डनीति, राजधर्म एवं कूटनीति सटीक)
Brihaspati Sutra or Barhaspatya Rajanitishastra with Commentary
महर्षि बृहस्पति (सम्पादक: डॉ. एफ. डब्ल्यू. थॉमस) द्वारा
पृष्ठ 43, कुल 100 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः । ११ वदनार्थं परान् स्तौति स बौद्धः ॥२८॥ लौकायतिको मृतो भवत्यर्थकामधर्ममोक्षविहीनो नारकी च॥२९॥ कुले च तत्कुलं तत्पुत्रपौत्रान्तरे विनश्यति ॥३०॥ कापाली स्वग्रामगृहस्वजनैः परित्यक्तः सर्वलोकनिन्दितो नारकी भवति ॥३१॥ तस्मिन्काल ए[७ख]व कुलं विनश्यति ॥३२॥ क्षपणकः स्वकुलग्रामवासिभिर्निन्दितो भवति त्रिकुलं विनश्यति ॥३३॥ बौद्धसंचितं कुलं पुत्रपौत्रकाले वा विनश्यति सुदुष्टो नारकी ॥३४॥ एवंपाषण्डिसंपर्कं मनसाऽपि न कुर्यात् ॥३५॥ सुव्यवस्थितमन्त्रेण परच्छिद्रज्ञानिना धार्मिकेण राज्यं परि- पालयितुं न शक्यते ॥३६॥ ऐश्वर्यमदमत्तेन सलोभमानिना संचितं विनश्यति ॥३७॥ कार्यं निश्चित्य विषयाननुभवति यः स उत्तममर्थं साध- यति ॥३८॥ चेष्टया कार्य[८ क]ज्ञान्यर्थपर इति धर्मवानिति लोकैर्यथा न ज्ञायते तथा कर्त्तव्यम् ॥३९॥ 14. M W तं । 15. W स्वगृहग्राम । 16. W जीवति । 17. W सतिकुलम् । 18. M W बौद्धः । 19. W ०पर्कं । 20. W सुव्यस्थि० । 21. M ज्ञातिना । 22. W०नां । 23. W ०चर ।