बार्हस्पत्य सूत्र / अर्थशास्त्र (महर्षि बृहस्पति - प्राचीन दण्डनीति, राजधर्म एवं कूटनीति सटीक)
Brihaspati Sutra or Barhaspatya Rajanitishastra with Commentary
महर्षि बृहस्पति (सम्पादक: डॉ. एफ. डब्ल्यू. थॉमस) द्वारा
पृष्ठ 45, कुल 100 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः । १३ सर्वस्वान्यपि दीयन्तां स्वकार्यजीवयशोरक्षणे ॥५३॥ मन्त्रकाले न कोपयेत् ॥५४॥ धर्मप्रधानं पुरुषा[३०-क]र्थान ॥५५॥ अधर्मेण भुज्यमानं सुखमसुहृत् ॥५६॥ ३१स्थितिर्वर्धनम् ॥५७॥ अपथ्यभोजनो मृत्युप्रीतिकर इव सत्यव्रतः शास्त्रेषु निष्ठितः पुरुषः सागरमपि शोषयेत् ॥५८॥ क्रुद्धो यदि हतपौरुषास्त्रस्ता भवन्ति ॥५९॥ एक एव बहून् ३२दुर्जनो नाशयति ॥६०॥ पौरुषे निष्ठितो देवो ॥६१॥ ३३यस्य स्वदाररतिः यस्यात्मदमने शक्तिस्तेन सहशो न ॥६२॥ सज्जनो न भयाद् ३४व्यतिवर्तते ॥६३॥ तस्मिन्काले हितमवक्तव्यमवाक्यज्ञैः सुहृद्भिः ॥६४॥ उत्सिक्तहृदयं धर्मे चलि[-ख]तमौरसमजितात्मानं शासितुं नोत्सहेत ॥६५॥ दारुणकर्मभिः ३५श्रान्तमज्ञानान्निद्रया सुप्तं धर्मवाक्यानिलैः शीतै- र्बालिशं प्रबोधयेत् ॥६६॥ 30. M W पुरुषार्थान् । 31. M W स्थिति । 32. W दुर्जनान्ना० । 33. M निष्ठितो देवो यस्य, W देवो वयस्य. No interpunctuation in either case. 34. W ०तन्ते । 35. M शान्तम् ।