भारतकोश
बार्हस्पत्य सूत्र / अर्थशास्त्र (महर्षि बृहस्पति - प्राचीन दण्डनीति, राजधर्म एवं कूटनीति सटीक)

बार्हस्पत्य सूत्र / अर्थशास्त्र (महर्षि बृहस्पति - प्राचीन दण्डनीति, राजधर्म एवं कूटनीति सटीक)

Brihaspati Sutra or Barhaspatya Rajanitishastra with Commentary

महर्षि बृहस्पति (सम्पादक: डॉ. एफ. डब्ल्यू. थॉमस) द्वारा

DevanagariHindipublished100 पृष्ठ

पृष्ठ 59, कुल 100 में से

संदर्भ में पढ़ें
पृष्ठ 59

चतुर्थोऽध्यायः । २७ गुणदोषागमं निश्चित्य मौर्य्याद्बाहुल्याद् य आरभते सो- ऽधमः ॥३३॥ ऐकमत्येन दण्डनीतिनेत्रेण धीरैर्मन्त्रिभिर्योमन्त्रः स उत्तमः ॥३४॥ पूर्वं बहुबुद्धयः पश्चादेकमतयो भवन्ति यत्र स मध्यमः ॥३५॥ [१७ख] यत्र कलहम्भर्त्सनं च एकस्य धर्म एकस्यार्थे स्त्रीबाल वृद्धैः सह एकस्य रुदितमेकस्यक्रोधो यस्मिन् सोऽधमः ॥३६॥ पूर्वं स्वामिना कार्यनिवेदनम् ॥३७॥ पुनर्वचसा कर्मणा मनसाञ्जलिना दण्डप्रणामेन यथागुरुत्वं स्वामिनमभिवन्दयेत् ॥३८॥ वृद्धो वैश्रवणो वाचस्पतिर्वा यस्यान्नं नाभुआते तं वन्देत् ॥३९॥ यत्पुनर्यथाक्रममेकैकस्य मतं श्रोतव्यम् ॥४०॥ स्वामिनं प्रसाद्य कार्यं कल्पयितव्यम् ॥४१॥ पूर्वं स्वामि[१८क]गुणं संकीर्त्य स्वामिदोषं परदोषं च मध्यस्थदोषं च मन्त्रयित्वा पुनः स्वामिगुणसंस्थापनं कुर्यात् ॥४२॥ 12. M मौर्यात् बाहुलाद्या; W मौर्या बाहुलाद्या। 13. Sic (neut.) 14. W भक्ततम् । 15. M ०णामौ; see introduction, notes at the end. 16. M यस्यानं ना । 17–17. W omits.