भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 100, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 100

Adh. VII. Sl. 2-4] सप्तमोऽध्यायः 81 तथा च समाससंहितायाम् उदयं याति शशिसुतो नोत्पातविवर्जितः कदाचिदपि । पवनाग्निसलिलभयदौ धान्यार्घवृद्धिक्षयकृद्वा ॥ तथा च वृद्धगर्गः अवर्षे कुरुते वर्षं वर्षे वर्षं न गच्छति । भये च कुरुते क्षेमं सर्वत्र प्रतिलोमगः ॥ तथा च कश्यपः नाकस्माद्दर्शनं याति विनोत्पातेन सोमजः । भयवातपातहिमैरर्घवृद्धिक्षयादिभिः ॥ विचरन् श्रवणधनिष्ठाप्राजापत्येन्दुवैश्वदेवानि । मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम् ॥२॥ Sloka 2.—When Mercury transits through the as- terism Sravana, Dhanishta, Rohini, Mrigasira and Uttara- shadha, there will be no rain and diseases will break out. तथा च कश्यपः । रोहिणीं वैश्वदेवं च सौम्यंवैष्णववासवान् । ज्ञाशिश्रश्च यदा हन्ति प्रजा रोगैश्च पीडयेत् ॥ रौद्रादीनि मधान्तान्युपाश्रिते चन्द्रजे प्रजापीडा । शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥३॥ Sloka 3.—When Mercury is passing through any of the five asterisms commencing from Ardra, people will suffer on account of clash of arms, hunger, fear, disease, drought and worries. तथा च कश्यपः । रौद्रादीनि यदा पञ्च नक्षत्राणीन्दुन्दनः । भिनत्ति शस्त्रदुर्भिक्षव्याधिभिः पीड्यते जगत् ॥ हस्तादीनि चरन् षडृक्षाण्युपपीडयन् गवामशुभः । स्नेहरसार्घविवृद्धिं करोति चोर्वीं प्रभूतान्नाम् ॥४॥ Sloka 4.—During Mercury's transit over the six stars reckoned from Hasta, cattle will suffer ; oil, ghee, etc. बृ. सं. 11