बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 108, कुल 1105 में से
संदर्भ में पढ़ेंAdh. VIII. Sl. 3-4] अष्टमोऽध्यायः 89 श्रावणादीनि च त्रीणि चरेद्यदि बृहस्पतिः । श्रावणो नाम सोऽब्दः स्यात्क्षेमसौभिक्षमूर्तिमान् ॥ पूर्वोत्तरे प्रोष्ठपदे चरेदेवातिभेव च । प्रोष्ठपाद इति ज्ञेयो मध्यमो वत्सरो हि सः ॥ आश्विनं चैव याम्यं च चरेद्यदि बृहस्पतिः । संवत्सरः सोऽश्वयुक् स्यात्सर्वभूतहितावहः ॥ नववारा द्विनक्षत्रा गुरोर्द्वादशमासिकाः । शेषास्त्रयस्त्रिनक्षत्राः पञ्चमैकादशान्तिमाः ॥ तथा च काश्यपः । कार्तिकादिसमा ज्ञेया द्विनक्षत्रविचारिणा । त्रिभं भाद्रपदे ज्ञेयं फाल्गुने श्रावणे तथा ॥ शकटानलोपजीवकगोपीडा व्याधिशस्त्रकोपश्च । वृद्धिस्तु रक्तपीतककुसुमानां कार्तिके वर्षे ॥३॥ Sloka 3. — In the Kartika year, cartmen, those living by fire and cows suffer. Diseases will crop up and there will be war. Red and yellow flowers will grow in large quantities. तथा च गर्गः । कार्तिकः प्रचुरातङ्कः क्षुच्छस्त्राग्निभयप्रदः । गोशाकटिकपीडां च करोत्येवमवृष्टिदः ॥ सौम्येऽब्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च सस्यवधः । व्याधिभयं मित्रैरपि भूपानां जायते वैरम् ॥४॥ Sloka 4.—In the Margasira year of Jupiter, there will be drought. The crops will be affected by wild animals, rats, locusts and birds. There will be outbreak of diseases, and kings will have dissensions even with their friends. तथा च गर्गः वर्षहन्ता व्याधिकरो मिथो भेदभयावहः । शलभाद्याकुलः सौम्यो दुर्भिक्षभयकारकः ॥ बृ. सं. 12