बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 112, कुल 1105 में से
संदर्भ में पढ़ेंAdh. VIII. Sl. 14-18] अष्टमोऽध्यायः 93 तथा च गर्गः । प्रौष्ठपादसस्यजननो नाशयत्यपरं च यत् । करोति च कचित्क्षेमं कचिदक्षेमकारकः ॥ आश्वयुजेऽब्देऽजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम् । प्राणचयः प्राणभृतां सर्वेषामन्नबाहुल्यम् ॥१४॥ Sloka 14.—In the Aswayuja year of Jupiter, there will be frequent rain ; people will be happy and con- tented. All living beings will grow strong and food will be in plenty for all. तथा च वृद्धगर्गः । पर्याप्तसस्यान्नजलक्षेमश्चाश्वयुजः शिवः । सम्प्रवृत्तोत्सवः श्रीमान् सर्वकामसुखावहः ॥ उद्गारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम् । याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥१५॥ Sloka 15.—Jupiter while in his northern course confers health, happiness and plenty ; this will be reverse in his southerly course. When he is in the middle, he will produce mixed effects. विचरन् भद्वयमिष्टस्तत्सार्द्धं वत्सरेण मध्यफलः । सस्यानां विध्वंसी विचरेदधिकं यदि कदाचित् ॥१६॥ Sloka 16.—Jupiter is beneficent when he transits two asterisms in the course of the year. The effect will be medium when he passes through 2½ lunar mansions. If he should perchance go through more than this, he would destroy all the crops. अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यामे । हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रभयम् ॥१७॥ धूमाभेऽनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे । विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः ॥१८॥