भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 120, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 120

अष्टमोऽध्यायः नन्दनोऽथ विजयो जयस्तथा मन्मथोऽस्य परतश्च दुर्मुखः । कान्तमत्र युग आदितस्त्रयं मन्मथः समफलोऽधमोऽपरः ॥३८॥ हेमलम्ब इति सप्तमे युगे स्याद्विलम्बि परतो विकारि च । शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पञ्चमः ॥३९॥ ईतिप्राया प्रचुरपवना वृष्टिरब्दे तु पूर्वे मन्दं सस्यं न बहुसलिलं वत्सरेऽतो द्वितीये । अत्युद्वेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थो दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः ॥४०॥ वैश्वे युगे शोभकृदित्यथाद्यः संवत्सरोऽतः शुभकृद्द्वितीयः । क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति पराभवश्च ॥४१॥ पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः । अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्राभयार्तिर्द्विजगोभयं च ॥४२॥