बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 137, कुल 1105 में से
संदर्भ में पढ़ें118 बृहत्संहितायाम् [Adh. IX. Sl. 38-39 तथा च उदयास्तमयस्थौ तु यदा शुक्रबृहस्पती। पूर्वसन्ध्यागतौ स्यातां जनयेतां तदा भयम् ॥ ऋषिपुत्रेण च भृगुगुरू अपरपूर्वकाष्ठास्थावभिहितौ। तथा चाह। पृष्ठतस्तूशना यत्र पुरस्ताच्च बृहस्पतिः। न च कश्चिद्ग्रहो मध्ये बुधो वाप्यथ दृश्यते ॥ एकमार्गसमापन्नौ प्रेक्षमाणौ परस्परम्। ते दिशौ पीडिते बिन्द्यात् त्रीन् पक्षानभियोजयेत् ॥ तथा च भद्रबाहौ पठ्यते। प्रत्यूषे प्राक्स्थितः शुक्रः पृष्ठतश्च बृहस्पतिः। यदाऽन्योन्यं निरीक्षेत तदा चक्रं प्रवर्तते ॥ धर्मार्थकामा लुप्यन्ते प्रस्तावा वर्णसङ्कराः। नृपाणां च समुद्योगो यतः शुक्रस्ततो जयः ॥ अवृष्टिश्च भयं रोगं दुर्भिक्षं च तदा भवेत्। आढकेन तु धान्यस्य ग्राहकः स्यात्तदा प्रियः ॥ यदा तु पृष्ठतः शुक्रः पुरतश्च बृहस्पतिः। यदा वालोकयेतां तौ तावदेव फलं भवेत् ॥ तथा च गर्गः। अन्योन्यमस्तसंस्थौ तु यदि शुक्रबृहस्पती। पूर्वसन्ध्यागतौ घोरं जनयेतां महद्भयम् ॥ यदा स्थिताजीवबुधारसूर्यजाः सितस्य सर्वेऽग्रपथानुवर्तिनः। नृनागविद्याधरसङ्गरास्तदा भवन्ति वाताश्च समुच्छ्रितान्तकाः ॥३८॥ न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यन्न रताः द्विजातयः। न चाल्पमप्यम्बु ददाति वासवो भिनत्ति वज्रेण शिरांसि भूभृताम्॥ Slokas 38-39.—When Jupiter, Mercury, Mars and Saturn are in advance of Venus, there will be wars among men, elephants (or serpents), demi-gods; and winds will destroy the tops of mountains, trees, etc. Friends will not continue as such; Brahmins will neglect their religious duties. There will not be a drop of rain from above; and thunderbolt will destroy the peaks of mountains.