बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 153, कुल 1105 में से
संदर्भ में पढ़ें134 बृहत्संहितायाम् [Adh. XI. Sl. 23-24 Sloka 22.—There are 33 Ketus named Tamasa- Keelakas who are the sons of Rahu and are well-known. They are seen on the discs of the Sun and the Moon and their effects have already been described in the chapter on Ravi-chara. तथा च गर्गः । कृष्णाभाः कृष्णपर्यन्ताः सकुलाः कृष्णरश्मयः । राहुपुत्रास्त्रयस्त्रिंशत्कीलकाश्चातिदारुणाः ॥ रविमण्डलगाश्चैते दृश्यन्ते चन्द्रगास्तथा । तथा च पराशरः । अपर्वण्येष दृश्यन्ते ह्यङ्गिराःकाककीलकाः । रवेरेवाङ्गिरा मध्ये ह्युभयोः काककीलकौ ॥ अङ्गिराः सरथो धन्वी दृश्यते पुरुषाकृतिः । काकः कालाकृतिर्घोरस्त्रिकोणी वापि लक्ष्यते ॥ मण्डलं कीलके मध्ये मण्डलस्यासिता ग्रहः । महानृपविरोधाय यस्यर्क्षे तस्य मृत्यवे ॥ विंशत्याधिकमन्यच्छतमग्नेर्विश्वरूपसञ्ज्ञानाम् । तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ॥२३॥ Sloka 23.—There is another set of 120 Ketus born of Agni named Viswarupas and endowed with rows of flames. These threaten mankind with serious outbreaks of fires. तथा च गर्गः । नानावर्णा हुताशाभा दीप्तिमन्तो विचूलिनः । सृजन्त्यग्निमिवाकाशे सर्वे ज्योतिर्विनाशनाः ॥ तेऽग्निपुत्रा ग्रहा ज्ञेया लोकेऽग्निभयवेदिनः । विंशं ग्रहशतं घोरं विश्वरूपेतिनामतः ॥ श्यामारुणा विताराश्चामररूपा विकीर्णदीधितयः । अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः ॥२४॥ Sloka 24.—There are 77 Ketus named Aruna Ketus which are born of wind. They are dark-red in colour, and