भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 176, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 176

त्रयोदशोऽध्यायः पूर्वे भागे भगवान्मरीचिरपरे स्थितो वसिष्ठोऽस्मात् । तस्याङ्गिरास्ततोऽत्रिरस्तस्यासन्नः पुलस्त्यश्च ॥५॥ पुलहः क्रतुरिति भगवानासन्ना अनुक्रमेण पूर्वाद्यात् । तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥६॥ उल्काशनिधूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः । हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्धयै ॥७॥ तथा च वृद्धगर्गः । उल्कया केतुना वापि धूमेन रजसापि वा । हता विवर्णाः स्वल्पा वा किरणैः परिवर्जिताः ॥ स्वं स्वं वर्गं तदा हन्युर्मुनयः सर्व एव ते । विपुलाः स्निग्धवर्णाश्च स्ववर्गपरिपोषकाः गन्धर्वदेवदानवमन्त्रौषधिसिद्धयक्षनागानाम् । पीडाकरो मरीचिर्हतो विद्याधराणां च ॥८॥ शकयवनदरदपारतकाम्बोजांस्तापसान्वनोपेतान् । हन्ति वसिष्ठोऽभिहतो विवृद्धितो रश्मिसम्पन्नः ॥९॥ अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः । अत्रेः कान्तारभवा जलजान्यम्भोनिधिः सरितः ॥१०॥