भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 207, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 207

188 बृहत्संहितायाम् [Adh. XVII. Sl. 9-10. applies to यायि and आक्रन्द planets and kings. In case of a conflict between पौर and यायि planets, that which is victorious will bestow victory on its own class of kings. दक्षिणदिक्स्थः परुषो वेपथुरप्राप्य सन्निवृत्तोऽणुः । अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥९॥ Sloka 9.—A planet is defeated when he is standing south, rough, quivering, retrograding without actually coming in contact with the other, small, mounted upon, of unnatural appearance, without brilliance and colourless. Parasara adds अभिहत or struck. तथा च पराशरः। दशभिर्लक्षणैर्ग्रहं जितं विन्द्यात् विवर्णः परुषः सूक्ष्मो याम्याशामार्गस्थोऽधिरूढो निष्प्रभो विकृताऽभिहतोऽप्राप्य निवृत्तो वेपनश्च अन्यथा विजयी । तथा च गर्गः। अरश्मिलोहितः श्यामः परुषः सूक्ष्म एव च । अपसव्यगतो यश्च चक्रान्तःपतितस्तथा ॥ च्युतः स्थानाद्धतो यश्च प्रतिस्तब्धस्तथैव च । निष्प्रभो विकृतश्चापि जवेनाभिहतश्च यः ॥ अप्राप्य वा निवृत्तो यो वेपनः कृष्ण एव च । लक्षणैः सप्तदशभिर्ग्रहं विन्द्यात्पराजितम् ॥ उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्दिश्यः । विपुलः स्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः ॥१०॥ Sloka 10.—A planet not possessing the above 'characteristics should be considered as victorious, i. e., when it is large, glossy and brilliant, even though stationed in the south. तथा च गर्गः। द्युतिमान् रश्मिसम्पन्नः प्रसन्नो रजतप्रभः । बृहद्रूपश्चरंश्चैव यः समेत्य ग्रहो भवेत् ॥ प्रभावर्णाधिको यश्च ग्रहमावृत्य तिष्ठति । तादृशं जयिनं विन्द्याद्ग्रहं ग्रहसमागमे ॥ तथा च पुलिशाचार्यः। सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयी शुक्रः ॥