बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 22, कुल 1105 में से
संदर्भ में पढ़ेंAdh. I. Sl. 6-7] प्रथमोऽध्यायः 3 आसीत्तमः किलेदं तत्रापां तैजसेऽभवद्धैमे । खर्भुशकले ब्रह्मा विश्वकृदण्डेऽर्कशशिनयनः ॥६॥ Sloka 6.—Originally, there was only darkness pervading throughout the universe. Then came water. From it sprang a blazing golden egg consisting of the two parts of the shell, viz., the earth and the firmament. Out of this, it is said, arose Brahman, the creator, with the Sun and the Moon for his eyes. Cf. मनुः आसीदिदं तमोभूतमप्रज्ञतमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ ततः स्वयम्भूर्भगवानव्यक्तं व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ ॥ सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥ तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा ॥ ताभ्यां स शकलाभ्यां तु दिवं भूमिं च निर्ममे । मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥ इति. कपिलः प्रधानमाह द्रव्यादीन् कणभुगस्य विश्वस्य । कालं कारणमेके स्वभावमपरे जगुः कर्म ॥७॥