बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 226, कुल 1105 में से
संदर्भ में पढ़ेंXX. 9. XXI. 1.] एकविंशोऽध्यायः 207 समौ तु संवर्त्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम् । समाजसंज्ञे सुसमा प्रदिष्टा वैरप्रकोपः खलु सन्निपाते ॥९॥ Sloka 9.—The effects of the two Yogas संवर्त and समागम are indifferent, i. e., neither good, nor bad, सम्मोह and कोश are dangerous to people. In समाज Yoga, the year will be very beneficial, while in सन्निपात there will certainly be the raging of hostilities. तथा च काश्यपः । संवर्तसङ्गमौ मध्यौ सम्मोहो भयदः स्मृतः । कोशश्चानिष्टफलदः समाजाख्यः सुमध्यमः ॥ सन्निपाते महावैरमन्योन्यमुपजायते । तथा च समाससंहितायाम् । संवर्त्तसमागगयोः साम्यं मोहे भयानि कोशे च । सुसमा समाजसञ्ज्ञे वैरण्यथ सन्निपाताख्ये ॥ तथा चात्रायं विशेषः समाससंहितायाम् । दुर्भिक्षरोगतस्करशस्त्रावृष्टिक्षुधं ग्रहाः कुर्युः । आनलवीथ्यां ज्ञेया अजवीथ्यां नेत्रपरिहानिः ॥ शस्त्रभयं मृगवीथ्यां जारद्गव्यां क्षुधं च रोगांश्च । पशुनाशं गोवीथ्यामृषभाराव्यायां च नृपपीडा ॥ सुसुभिक्षमिरावत्यां गजवीथ्यां च ऋतूत्सवामोदाः । अतिजलमोक्षं कुर्युर्नागाख्यायां च सर्वे तु ॥ ग्रहोदये प्रवासे च सोमसूर्यग्रहे तथा । विचार्य वीथीमार्गांश्च लोके ब्रूयाच्छुभाशुभम् ॥ Thus ends the 20th Adhyaya on "the Planetary Triangle." गर्भलक्षणम् ॥२१॥ Pregnancy of clouds. अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायत्तम् । यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥१॥ Sloka 1.—As food is the elixir of life to living beings, and as that food is dependent on the monsoon, it should be investigated carefully.