बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 232, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XXI. Sl. 23-24] एकविंशोऽध्यायः 213 तथा च काश्यपः । शीतमभ्रं तथा वायुश्चन्द्रार्कपरिवेषणम् । माघे मासि परीक्षेत श्रावणे वृष्टिमादिशेत् ॥ फाल्गुने चात्र सञ्जातं वृष्टिस्तनितमेव च । पुरो वाताश्च ये प्रोक्ता मासि भाद्रपदे शुभम् ॥ बहुपुष्पफला वृक्षा वाताः शर्करवर्षिणः । शीतवर्षं तथाभ्राणि चैत्रेणाश्वयुजं वदेत् ॥ वहन्ति मृदवो वाताः पुरः शीघ्रं प्रदक्षिणाः । वैशाखे तानि रूपाणि कार्तिके मासि वर्षति ॥ तथा च समाससंहितायाम् । शस्तानि मृगाम्मासाच्छीतहिमवायुमेघकृतानि । स्तनिततडिज्जलमारुतघनतापान्यतिशयं तु वैशाखे ॥ कृष्णेन शुक्लपक्षः सितेन कृष्णो निशा दिनोत्थेन । रात्र्याहः सन्ध्यायां सन्ध्यादिग्व्यत्ययाज्जलदाः ॥ मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासः । जलचरसत्त्वाकारा गर्भेषु घनाः प्रभूतजलाः ॥२३॥ तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः । रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ॥२४॥