भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 234, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 234

Adh. XXI. Sl. 27-29] एकविंशोऽध्यायः 215 परिवेषाः परिधयो वासवस्य धनूंषि च । अनभ्रस्तनितं वर्षं दिशां दाहस्तथैव च ॥ अनातवं पुष्पफलं वारणीयेषु वर्षणम् । ग्रहयुद्धेषु घोरेषु हतान् गर्भान् विनिर्दिशेत् ॥ तथा च पराशरः। तेषां ग्रहाणामुदयास्तमयोलकानिर्घाताशनिपातगन्धर्व- नगरदिग्दाहार्करश्मिवर्णविकारभूचलनप्रादुर्भावो वर्षास्ववर्षांय ॥ ऋतुस्वभावजनितैः सामान्यैश्च लक्षणैर्वृद्धिः । गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति ॥२७॥ Sloka 27.—Signs, precisely the reverse of those, both general and special, for any particular season, by which the growth of an embryo is assured, produce the con- trary results. भद्रपदाद्वयविश्वाम्बुदेवपैतामहेष्वथर्क्षेषु । सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति ॥२८॥ Sloka 28.—A foetus that develops when the Moon stands in any of the five asterisms, viz., Purvabhadra, Uttarabhadra, Purvashadha, Uttarashadha and Rohini in any season will yield plenty of rain. शतभिषगाश्लेषार्द्रास्वातिमघासंयुक्तः शुभो गर्भः । पुष्णाति बहून् दिवसान् हन्त्युत्पातैर्हतस्त्रिविधैः ॥२९॥ Sloka 29.—An embryo that is formed in Satabhi- shak, Aslesha, Ardra, Swati or Magha proves fertile and develops (or rains) for many days; while, being stricken with three-fold portents (referred to above), it is destroyed. त्रिविधमुत्पातलक्षणमाचार्येण समाससंहितानिबन्धने स्पष्टतरमुक्तम्- दिव्यं ग्रहक्षेजतं भुवि भौमं स्थिरचरोद्भवं यच्च । दिग्दाहोल्कामारुतपरिवेषाद्यं वियत्प्रभवम् ॥ तथा च गर्गः । प्राजापत्यं मघाऽश्लेषा रौद्रं चानिलवारुणम् । आषाढाद्वितयं चैव तथा भद्रपदाद्वयम् ॥