भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 250, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 250

Adh. XXIV. Sl. 21] चतुर्विंशोऽध्यायः 231 above description, there would be plenty of food, the people would be happy and contented or, there would be abundant water in the land, respectively. तथा च गर्गः । दधिरौप्यामलक्रौञ्चताम्राभरणसन्निभाः । शुककौशेयमाञ्जिष्ठात्तपनीयसमप्रभाः ॥ अच्छिन्नमूलाः सुस्निग्धाः पर्वताकारसन्निभाः । घना घनाः प्रशस्यन्ते विद्युत्स्तनितसङ्कुलाः ॥ तथा च पराशरः । रोहिणीयोगे पुनः प्रदक्षिणो मृदुर्मारुतः स्नेहवन्ति चाम्राणि विद्युच्छक्रचापालङ्कृतानि स्वादुसुरभिविमलशिशिरतावृद्धिश्चाम्भसां वृष्टिः क्षेमसुभिक्षाय यावतो दिवसान्निमित्तप्रादुर्भावानुबन्धस्तावद्वर्षाणि सुभिक्षक्षेमम् । आसप्तरात्राद्विलवासिनां बिलेभ्यो निष्क्रमणं स्त्रीपुरुषबालानां प्रमोदः पक्षिणां क्षीरपुष्पफलवृक्षसेवनं तरूणामच्छिद्रपत्रता पुरपौरांहिताय ॥ तथा च समाससंहितायाम् । आषाढबहुलपक्षे शिशिरकरे रोहिणीसमायुक्ते । यदि गगनममलमत्यन्ततीक्ष्णरश्मिः सहस्रांशुः ॥ सलिलगुरुनम्नजलधरतडिल्लतालोलशक्रनादिगन्तः । अभितमलमभेकचातककादम्बविमिश्रमाकाशम् ॥ क्षितितनयरविजरहितः स्फटिकनिभश्चन्द्रमा निरुत्पातः । मरुतश्च पूर्वपूर्वोत्तरोत्तराः शान्तमृगविहगाः ॥ रूक्षैरल्पैर्मारुताक्षिप्तदेहैरूष्ट्राध्वाङ्क्षप्रेतशाखामृगाभैः । अन्येषां वा निन्दितानां स्वरूपैर्मूकैश्शब्दैर्नो शिवं नापि वृष्टिः ॥२१॥ Sloka 21.—There would neither be prosperity nor rain in the land, should the clouds be rough and small, tossed about by the winds, have the shapes of camels, crows, dead bodies, monkeys or other inauspicious creatures and be silent. तथा च गर्गः । छिन्नमूलाश्च वृक्षाश्च शुष्का बाष्पाकुलीकृताः । पापसत्वानुकाराश्च मेघाः पापफलप्रदाः ॥

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान) · पृष्ठ 250, कुल 1105 में से · BharatKosha