बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 261, कुल 1105 में से
संदर्भ में पढ़ें242 बृहत्संहितायाम् [Adh. XXVI. Sl. 11-12. Sloka 10.—Such substances as, again being weighed prove to have diminished in weight, will be lost; such as have increased will thrive; such as continue in the same condition will be indifferent. This is called the secret of weighing treasures with the balance. This applies equally to the Moon's conjunction with Rohini also. तथा च गर्गः येषां प्रणमते सारं ते भवन्ति च नासमम् । येषां तु हीयते सारं तेषां नाशं विनिर्दिशेत् ॥ समानि तु समानि स्युस्तुलया तुलितानि तु ॥ तथा च पराशरः सारसेऽम्भसि सस्यानां राज्ञां च विजयोऽधिके । नादेये मध्यमा सम्पदकनीयस्य चलोदके ॥ यस्यां दिशि भवेन्माल्यमम्लानं शुचिगन्धिमत् । तस्यां दिशि विजानीयाद्राज्ञां शिवमनामयम् ॥ इति- स्वातावषाढास्वथ रोहिणीषु पापग्रहा योगगता न शस्ताः । ग्राह्यं तु योगद्वयमप्युपोष्य यदाधिमासो द्विगुणीकरोति ॥११॥ Sloka 11.—Evil planets standing in Swati, Uttara- shadha or Rohini during the Moon's conjunction cause misery in the land. In the case of an intercalary Asha- dha month occurring, one should observe both the lunar conjunctions with devotional fasting. तथा च गर्गः योगैः पापैरुपहतैः प्रजानामशुभं वदेत् । दुर्भिक्षावृष्टिमरकान् सौम्यैः सौभिक्षमादिशेत् ॥ तथा च पराशरः- शुक्रबुधबृहस्पतिसंयोगे शूकधान्यतिलमुद्गविनाशः । सौरस्य मध्यदेशाभावो भौमस्य शस्त्रकोपः । केतोर्भयदुर्भिक्षप्रादुर्भावावग्रहः । रोहिणीमध्यगमनमिन्दोः सुभिक्षक्षेमवृष्टिकरणम् ॥ त्रयोऽपि योगाः सदृशाः फलेन यदा तदा वाच्यमसंशयेन । विपर्यये यत्त्विह रोहिणीजं फलं तदेवाभ्यधिकं निगद्यम् ॥ १२॥