बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 312, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XXXIV. Sl. 16-18] चतुस्त्रिंशोऽध्यायः 293 तथा च समाससंहितायाम् बलपपुरोहितनरपतिकृषिकृत्पीडा क्रमेण परिविष्टैः । कुजगुरुसितार्कपुत्रैः सौम्येन तु मन्त्रिपरिवृद्धिः ॥ केतोः शस्त्रोद्योगो राहोः परिवेषणेन रोगभयम् । युद्धक्षुद्भयनृपनाशं व्याध्यादिभिः क्रमशः ॥ युद्धानि विजानीयात्परिवेषाभ्यन्तरे द्वयोर्ग्रहयोः । दिवसकृतः शशिनो वा क्षुद्वृष्टिभयं त्रिषु प्रोक्तम् ॥१६॥ याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः । प्रलयमिव विद्धि जगतः पञ्चादिषु मण्डलस्थेषु ॥१७॥ Slokas 16-17.—If there be two planets within the halo of the Sun or the Moon, one should predict wars ; if there be three planets, impending famine and drought ; if four, the king with his preceptors and ministers will die ; and if five or more, know that something similar to the dissolution of the universe will be the result. ताराग्रहस्य कुर्यात् पृथगेव समुत्थितो नरेन्द्रवधम् । नक्षत्राणामथवा यदि केतोर्नोदयो भवति ॥१८॥ Slokas 18.—If a non-luminary or an asterism has got an independent halo around it, there will be the destruction of a king, provided there is no appearance of a Ketu at the time. तथा च काश्यपः परिवेषाभ्यन्तरगौ द्वौ ग्रहौ यायिनागरौ । युद्धं च भवति क्षिप्रं घोररूपं सुदारुणम् ॥ मण्डलान्तरिताः पञ्च जगतः संक्षयावहाः : । अथ ताराग्रहस्यैव नक्षत्राणामथापि वा । परिवेषो यदा दृश्यस्तदा नरपतेर्वधः । यदि केतूदयो न स्यादन्यथा तद्गदत्फलम् ॥