भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 328, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 328

एकचत्वारिंशोऽध्यायः तथा च काश्यपः वृषे महिषगोवस्त्रशालयः पुष्पसम्भवाः । मिथुने धान्यशालूकवह्वयः कार्पासशारदम् ॥ कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि । सिंहे तुषधान्यरसः सिंहादीनां त्वचः सगुडाः ॥४॥ तथा च काश्यपः कर्कटे फलदूर्वाश्च कोद्रवः कदला तथा । सिंहे धान्यं सर्वरसाः सिंहादीनां त्वचो गुडाः ॥ षष्ठेऽतसीकलायाः कुलत्थगोधूममुद्गनिष्पावाः । सप्तमराशौ माषा यवगोधूमाः ससर्षपाश्चैव ॥५॥ तथा च काश्यपः कन्यायां मुद्गनीवारकुलत्थाः सकला यवाः । तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा ॥ अष्टमराशाविक्षुः सैक्यं लोहान्यजाविकं चापि । नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ॥६॥ तथा च काश्यपः अलिनीक्षुरसं सैक्यमाजं लोहं सकांस्यकम् । धान्यं धनुषि वस्त्राणि लवणं तुरगास्तथा ॥