भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 365, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 365

346 बृहत्संहितायाम् [Adh. XLVI. Sl. 4-6. ते तु सम्बोधिता विप्रैः शान्तये मङ्गळानि च । श्रद्दधानाः प्रकुर्वन्ति न ते यान्ति पराभवम् ॥ ये तु न प्रतिकुर्वन्ति क्रियामश्रद्धयान्विताः । नास्तिक्यादथवा कोपाद्विनश्यन्त्यथवा चिरात् ॥ दिव्यं ग्रहर्क्षवैकृतमुल्कानिर्घातपवनपरिवेषाः । गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत् ॥४॥ भौमं चरस्थिरभवं तच्छान्तिभिराहतं शममुपैति । नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके ॥५॥ Slokas 4-5.—The celestial portents consist of the unnatural behaviour of planets and asterisms, meteors, thunders, storms and halos; the atmospheric ones, of aerial cities, rainbows, etc.; and the terrestrial ones arise from the moving and the stationary objects. This last class can be warded off through expiatory rites; the atmospheric can be mitigated, while the celestial accord- ing to some cannot be so assuaged. तथा च गर्गः । खभानुकेतुनक्षत्रग्रहतारार्कजेन्द्रजम् । दिवि चोत्पद्यते यच्च तद्दिव्यमिति कीर्तितम् ॥ वाध्वाभ्रसन्ध्यादिग्दाहपरिवेषतमांसि च । खपुरं चेन्द्रचापं च तद्विद्यादन्तरिक्षजम् ॥ भूमावुत्पद्यते यच्च स्थावरं वाथ जङ्गमम् । तदेकदेशिकं भौममुत्पातं परिकीर्तितम् ॥ तथा च समाससंहितायाम् ॥ दिव्यं ग्रहर्क्षजातं भुवि भौमं स्थिरचरोद्भवं यच्च । दिग्दाहोल्कापतनं परिवेषाद्यं वियत्प्रभवम् ॥ तथा च काश्यपः भौमं शान्तिहतं नाशमुपगच्छति मार्दवम् । नाभसं च शमं याति दिव्यमुत्पातदर्शनम् ॥ दिव्यमपि शममुपैति प्रभूतकनाश्नगोमहीदानैः । रुद्रायतने भूमौ गोदोहात् कोटिहोमाच्च ॥६॥