भारतकोश
बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

Brihat Samhita of Varahamihira with Hindi Commentary

आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा

DevanagariHindipublished1,105 पृष्ठ

पृष्ठ 377, कुल 1105 में से

संदर्भ में पढ़ें
पृष्ठ 377

358 बृहत्संहितायाम् [Adh. XLVI. Sl. 54-57. तथा च गर्गः । अकाले प्रसवे चैव कालातीतेऽथवा पुनः । असंख्यजनने चैव युग्मस्य प्रसवे तथा ॥ अमानुषाणि काण्डानि सञ्जातव्यञ्जनानि वा । अनङ्गा ह्यधिकाङ्गा वा हीनाङ्गाः सम्भवन्ति वा ॥ विमुखाः पक्षिसदृशास्तथार्धपुरुषाश्च वा । विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत् ॥ अप्राप्तवयसे गर्भे द्वौ चतुष्पात्त्रयोऽपि वा । अत्युच्चा विनताश्चापि प्रजायन्तेऽनयो भवेत् ॥ वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते । विजन्यं विकृतं वापि षड्भिर्मासैर्नृपक्षयः ॥ नार्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना । तर्पयेच्च द्विजान् कामैः शान्तिः चैवात्र कारयेत् ॥५४॥ चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु । नगरं स्वामिनं यूथमन्यथा तु विनाशयेत् ॥५५॥ परयोनावभिगमनं भवति तिरश्चामसाधु धेनूनाम् । उक्षाणो वान्योन्यं पिबन्ति श्वा वा सुरभिपुत्रम् ॥५६॥ मासत्रयेण विन्द्यात्तस्मिन्निःसंशयं परागमनम् । तत्प्रतिघातार्थंतौ श्लोकौ गर्गेण निर्दिष्टौ ॥५७॥

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान) · पृष्ठ 377, कुल 1105 में से · BharatKosha