बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 398, कुल 1105 में से
संदर्भ में पढ़ेंAdh. XLVIII. Sl. 1-3] .अष्टाचत्वारिंशोऽध्यायः 379 पुष्यस्नानम् ॥४८॥ Royal Ablution. मूलं मनुजाधिपतिः प्रजातरोस्तदुपघातसंस्कारात् । अशुभं शुभं च लोके भवति यतोऽतो नृपतिचिन्ता ॥१॥ Sloka 1.—The king is the root of the subject-tree. Since the happiness and misery of the people arise in order from nourishing and injuring that root, it is neces- sary to devise means to enhance the king's welfare. या व्याख्याता शान्तिः स्वयम्भुवा सुरगुरोर्महेन्द्रार्थे । तां प्राप्य वृद्धगर्गः प्राह यथा भागुरेः शृणुत ॥२॥ Sloka 2.—Now listen, Ye, to the expiation, which had been expounded by the Self-born to the Precep- tor of Gods for the sake of Indra, and which, later, the Senior Garga got and imparted to sage Bhaguri. तथा च वृद्धगर्गः । देवाश्च दितिजैः सार्धं स्पर्धमाना हि मानिनः । परस्परं महद्युद्धं चक्रुः सर्वे सुरासुराः ॥ ततो दैत्यगणैः क्रुद्धैर्देवाः सर्वे विनिर्जिताः । ततोऽङ्गिराः सुरगुरुर्ध्यानसक्तोऽभवत्पुरा ॥ पुरन्दराभिषेकार्थं बृहस्पतिरकल्पयत् । तिष्यमात्मीयनक्षत्रं यस्य देवो बृहस्पतिः ॥ तेन चैवाभिषिक्तश्च देवराजः पुरन्दरः । ततो बलसमारूढो नाशयामास दानवान् ॥ देवाश्च हृष्टमनसः पुरीं प्राप्यामरावतीम् । पुष्यस्नानं बलतरं तदारभ्य प्रवर्त्तितम् ॥ पुष्यस्नानं नृपतेः कर्तव्यं दैववित्पुरोधाभ्याम् । नातः परं पवित्रं सर्वोत्पातान्तकरमस्ति ॥३॥ Sloka 3.—The royal astrologer and preceptor should give the King an ablution on a day with the