बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 469, कुल 1105 में से
संदर्भ में पढ़ें450 बृहत्संहितायाम् [Adh. Sl. LIII. 96-99. बस्मिन् वा धारयेच्छुभ्रे चित्रं माल्यमनुक्रमात् ॥ यच्चिरानम्लायते माल्यं तद्वर्णं तत्र चावसेत् । आमे वा मृन्मये पात्रे दीपवर्तिचतुष्टयम् ॥ यस्यां दिशि प्रज्वलात चिरं तस्यैव सा शुभा । सितरक्तपीतकृष्णा विप्रादीनां प्रशस्यते भूमिः । गन्धश्च भवति यस्यां घृतरुधिरान्नाद्यमद्यसमः ॥९६॥ कुशयुक्ता शरबहुला दूर्वाकाशावृता क्रमेण मही । ह्यनुवर्णं वृद्धिकरी मधुरकषायाम्लकटुका च ॥९७॥ Slokas 96-97.—A soil that is white is good for Brahmins ; one red, for Kshatriyas ; yellow, for Vaisyas ; and black, for Sudras. If it smells like ghee, blood, food and liquor, it is good for the four classes taken in order. Similarly it is auspicious for these classes in their order if it is covered with holy grass, Sara, Durva and Kasa. Likewise, a sweet, astringent, sour and pungent earth bestows prosperity on these classes तथा च गर्गः मधुरा दर्भसंयुक्ता घृतगन्धा च या मही । उत्तरप्रवणा चेति ब्राह्मणानां तु सा शुभा ॥ रक्तगन्धा कषाया च शरवीरेण संयुता । रक्ता प्राक्प्रवणा ज्ञेया क्षत्रियाणां तु सा मही ॥ दक्षिणप्रवणा भूमिर्याम्ला दूर्वाभिरन्विता । अन्नगन्धा च वैश्यानां पीतवर्णा प्रशस्यते ॥ पश्चिमप्रवणा कृष्णा विकुण्ठा काशसंवृता । मद्यगन्धा मही धन्या शूद्राणां कटुका तथा ॥ कृशां प्ररूढबीजां गोऽध्युषितां ब्राह्मणैः प्रशस्तां च । गत्वा महीं गृहपतिः काले सांवत्सरोद्दिष्टे ॥९८॥ भक्ष्यैर्नानाकारैर्दध्यक्षतसुरभिकुसुम धूपैश्च । दैवतपूजां कृत्वा स्वपतीनभ्यर्च्य विप्रांश्च ॥९९॥