बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 472, कुल 1105 में से
संदर्भ में पढ़ेंAdh. LIII. Sl. 108-109.] त्रिपञ्चाशोऽध्यायः 453 be told that the specified spot contains a bone of such an animal and belonging to the limb corresponding to that touched by the owner. सूत्रे प्रसार्यमाणे गर्दभरावोऽस्थिशल्यमाचष्टे । श्वशृगाललङ्घिते वा सूत्रे शल्यं विनिर्दिश्यम् ॥१०८॥ Sloka 108.—The braying of an ass at the time of stretching the measuring string indicates the presence of a bone underneath. Similarly when the string is crossed by a dog or jackal, the same fault is to be predicted. दिशि शान्तायां शकुनिर्मधुरविरावी यदा तदा वाच्यः । अर्थस्तस्मिन् स्थाने गृहेश्वराधिष्ठितेऽङ्गे वा ॥१०९॥ Sloka 109.—If at that time, a bird sitting in a 'calm' direction warbles sweetly, it is to be understood that there is a hidden treasure on the spot or in the limb of the House-God occupied by the owner. तथा च गर्गः प्रश्नकाले गृहपतिः कस्मिन्नङ्गे समास्थितः । किमङ्गं संस्पृशेद्व्वापि व्याहरेद्वा शुभाशुभम् ॥ विलोक्य स्थपतिः पूर्वं पश्चाच्छल्यं विचारयेत् । शङ्खभेरीमृदङ्गानां पटहानां च निःस्वनाः ॥ दध्यक्षतानां पुष्पाणां फलानां दर्शनानि च । प्रष्टुश्च प्रवदेच्छल्यं वास्तुज्ञानविशारदः ॥ दीप्तदिक्संस्थितः पक्षी विरौति पौरुषं रवम् । स्पृष्टाङ्गसदृशं शल्यं तस्य स्थाने विनिर्दिशेत् ॥ निखनेदवनिं तत्र तदङ्गं त्रुडते यथा । गृहनाथस्य तत्राधः शल्यं निःसंशयं वदेत् ॥ प्रश्नकाले गजो गौर्वा तुरगो गर्दभोऽपि वा । उष्ट्रो वा सारमेयो वा मार्जारश्छागरोऽपि वा ॥ यः प्राणी व्याहरेत्तत्र तद्भवं शल्यमादिशेत् । प्रमाणं तस्य वक्तव्यं पूर्वोक्तविधिना ततः ॥