बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 536, कुल 1105 में से
संदर्भ में पढ़ेंAdh. LVIII. Sl. 58.] अष्टपञ्चाशोऽध्यायः 517 ब्रह्मा चतुर्मुखो दण्डी कृष्णाजिनकमण्डली । विष्णुश्चतुर्भुजः शार्ङ्गी शङ्खचक्रगदाधरः । श्रीवत्साङ्कः पीतवासा वनमालाविभूषितः ॥ नरसिंहः स्थूलदेहो रोमावर्तविभूषितः । उद्घाटितमुखः स्रग्वी वह्निकान्तिर्बृहद्भुजः ॥ वराहः सूकरमुखश्चतुर्बाहुविभूषितः । नीलाञ्जनचयप्रख्यो ध्यानशक्तः सुलोचनः ॥ ईश्वरो जटिलस्त्र्यक्षो वृषचन्द्राङ्कभूषितः । उरगेन्द्रोपवीती च कृत्तिवासाः पिनाकधृक् ॥ चण्डिकाष्टदशभुजा सर्वप्रहरणान्विता । त्र्यक्षा सिंहरता धन्या महिषासुरसूदिनी ॥ मयूरवाहनः स्कन्दः शक्तिकुक्कुटधारकः । सुरूपदेहः विक्रान्तो देवः सेनापतिः शिशुः ॥ आदित्यस्तरुणः स्रग्वी कवची खड्गधृत्तथा । तेजस्वी पद्मकरः षड्वर्गैश्च किरीटवान् ॥ ऐरावतश्चतुर्दन्तः श्वेतगात्रो महागर्जः । तदारूढो महेन्द्रस्तु वज्रहस्तं महाबलः ॥ तिर्यंग्ललाटगं नेत्र तृतीयं तस्य कारयेत् । नीललोहितवर्णा च शची तस्य समीपगा ॥ एवं देवगणाः सर्वे स्वायुधाभरणोज्ज्वलाः । कर्तव्याः स्वरूपाश्च संम्पूर्णाः शुभलक्षणाः ॥ हस्तमात्रा भवेत्सौम्या द्विहस्तान्नधनप्रदा । सुभिक्षक्षेमदा पुण्या त्रिहस्ता तु चतुष्करा ॥ वैकल्यं कुरुते हीना कृशाङ्गी देहनाशिनी । मरणं सक्षतायां तु सुदीर्घा वित्तनाशिनी ॥ वामे नता हन्ति पत्नीं कर्तुर्दक्षिणभागगा । ऊर्ध्वदृष्टिर्नेत्ररोगं गोकर्णा स्यादधोमुखी ॥ सुरुपा सुप्रभागैश्च सर्वाभरणभूषिता । स्वायुधैश्च समायुक्ता कर्तव्या प्रतिमा शुभा ॥ प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठारधारी स्यात् । एकविषाणो बिभ्रन्मूलककन्दं सुनीलदलकन्दम् ॥५८॥