बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 546, कुल 1105 में से
संदर्भ में पढ़ेंAdh. LXI. Sl. 2-4.] एकषष्टितमोऽध्यायः 527
सास्त्राविलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदा गावः । प्रचलचिपिटविषाणाः करटाः खरसदृशवर्णाश्च ॥२॥ दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठ्यः । ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥३॥ श्यावातिदीर्घजिह्वा गुल्फैरीततनुभिरीतबृहद्भिर्वा । अदिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च ॥४॥
तथा च पराशरः । साश्रूणी लोचने यासां रूक्षाल्पे च न ताः शुभाः । चलच्चिपिटशृङ्गाश्च करटाः खरसन्निभाः ॥ दशसप्तचतुर्दन्त्यो ऽलम्बवक्त्रा न ताः शुभाः । विषाणवर्जिता ह्रस्वाः पृष्ठमध्यातिसन्नताः ॥ ह्रस्वस्थूलगला याश्च यवमध्याः शुभा न ताः । भिन्नपादा बृहत्कुफा याश्च स्युस्तनुगुल्फकाः ॥ श्यावातिदीर्घजिह्वाश्च महत्ककुदसंयुताः । याश्चातिकृशदेहाश्च हीना अवयवैश्च याः ॥ न ताः शुभप्रदा गावो भर्तुर्यूथस्य नाशना ।