बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 550, कुल 1105 में से
संदर्भ में पढ़ेंAdh. .LXII. Sl. 1.] द्विषष्टितमोऽध्यायः 531 Sloka. 19.—One that has one white foot also brings good luck even if it be of any colour. Where one with all auspicious signs is not available, another of partially good promise is acceptable. तथा च पराशरः । मृदुसंहतताम्रोष्ठास्तनुजिह्वास्तनूरुजः । वैदूर्यमधुवर्णैश्च जलबुद्बुदसन्निभैः ॥ रक्तस्निग्धैश्चनयनैस्तथा रक्तकनीनिकैः । सिंहस्कन्धा महोरस्का दृढपृष्ठाः ककुद्मिनः ॥ भूमौ कर्षति लाङ्गूलं प्रलम्बस्थूलवालधिः । पुरस्तादुन्नता नीचाः पृष्ठतः सुसमाहिताः ॥ वृत्ताङ्गाः स्थूलगात्राश्च विस्तीर्णजघनाश्च ये । स्पष्टताम्रतनुश्लक्ष्णैः शफै रविरलैर्दृढैः ॥ समुद्रवरसंस्थानैः समास्फुटितपाष्णिभिः । वृत्तस्थूलोद्धतग्रीवाः ककुदैश्च समुच्छ्रितैः ॥ एते भारसहा ज्ञेया धुरि याने च पूजिताः । आवर्तैर्दक्षिणावर्तैर्युक्ता दक्षिणतश्च ये ॥ वामावर्तैर्वामतश्च संयुक्तास्तेऽपि पूजिताः । प्रलम्बवृषणोत्यर्थं संक्षिप्तोदरवङ्क्षणः ॥ विस्तीर्णवक्षो जघनो भारे याने च पूजितः । स्निग्धपिङ्गेक्षणश्चेतस्ताम्राश्शृङ्गो महानासः ॥ स तु गौः पद्मको नाम गोसहस्रप्रवर्धनः । Thus ends the 61st Adhyaya on " the Signs of Cows.". श्वलक्षणम् ॥६२॥ Signs of Dogs. पादाः पञ्चनखास्त्रयोऽग्रचरणः षड्भिर्नखैर्दक्षिण- स्ताम्रोष्ठाग्रनसो मृगेश्वरगतिर्जिघ्रन् भुवं याति च । लाङ्गूलं ससटं दृगृक्षसदृशी कर्णौ च लम्बो मृदू यस्य स्यात् स करोति पोषुरचिरात्पुष्टां श्रियं स्वा गृहे ॥१॥