बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)

बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
DevanagariHindipublished1,105 पृष्ठ
पृष्ठ 594, कुल 1105 में से
संदर्भ में पढ़ेंपृष्ठ 594
Adh. LXIX. Sl. 29-32.] एकोनसप्ततितमोऽध्यायः 575 खट्वाङ्गवीणावृषचापवज्रशक्तीन्द्रशूलाङ्कितपाणिपादः । भक्तो गुरुब्राह्मणदेवतानां शताङ्गुलः स्यात्तु सहस्रमानः ॥२९॥ मन्त्राभिचारकुशलः कृशजानुजङ्घो विन्ध्यं ससह्यगिरिमुज्जयिनीं च भुक्त्वा । सम्प्राप्य सप्ततिसमा रुचको नरेन्द्रः शस्त्रेण मृत्युमुपयात्यथवानलेन ॥३०॥ Cf. सारावली Adh. 37—31, 32, 33. ॥ नृपानुचरणलक्षणम् ॥ पञ्चांपरे वामनको जघन्यः कुब्जोऽथवा मण्डलकोऽथ साची । पूर्वोक्तभूपानुचरा भवन्ति सङ्कीर्णसञ्ज्ञाः शृणु लक्षणैस्तान् ॥३१॥ सामी is another reading for साची. सम्पूर्णाङ्गो वामनो भग्नपृष्ठः किञ्चित्चोरुर्मध्यकक्ष्यान्तरेषु । ख्यातो राज्ञां द्वेष्य भद्रानुजीवी स्फीतो राजा वासुदेवस्य भक्तः ॥