बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
पृष्ठ 92, कुल 1105 में से
संदर्भ में पढ़ेंAdh. V. Sl. 91-96] पञ्चमोऽध्यायः 73 तथा च कश्यपः पर्यन्ते विमलत्वं स्यात्तमो मध्ये यदा भवेत् । मध्याख्यदेशनाशः स्याच्छरत्सस्यं विनश्यति ॥ एते सर्वे मोक्षा वक्तव्या भास्करेऽपि किन्त्वत्र । पूर्वा दिक् शशिनि यथा तथा रवौ पश्चिमा कल्प्या ॥९१॥ मुक्ते सप्ताहान्तः पांशुनिपातोऽन्नसङ्क्षयं कुरुते । नीहारो रोगभयं भूकम्पः प्रवरनृपमृत्युम् ॥९२॥ उल्का मन्त्रिविनाशं नानावर्णा घनाश्च भयमतुलम् । स्तनितं गर्भविनाशं विद्युन्नृपदंष्ट्रिपरीपीडाम् ॥९३॥ परिवेषो रुक्पीडां दिग्दाहो नृपभयं च साग्निभयम् । रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ॥९४॥ निर्घातः सुरचापं दण्डश्च क्षुद्भयं सपरचक्रम् । ग्रहयुद्धे नृपयुद्धं केतुश्च तदेव सन्दृष्टः ॥९५॥ अविकृतसलिलनिपातः सप्ताहान्तः सुभिक्षमादेश्यम् । यच्चाशुभं ग्रहणजं तत्सर्वं नाशमुपयाति ॥९६॥ बृ. सं. 10