चक्रदत्त (चक्रपाणिदत्त - पदार्थचन्द्रिका व हिन्दी व्याख्या सहित)
Chakradatta Hindi
महामहोपाध्याय चक्रपाणिदत्त द्वारा
स्रोत: Chakradatta Chikitsa Sangraha with Hindi Commentary (उद्गम)
पृष्ठ 198, कुल 674 में से
संदर्भ में पढ़ें१२. हिक्काश्वासाधिकारमु।
श्लो. हिक्काश्वासातुरे पूर्वं तैलाक्तैस्स्वेद इष्यते, स्निग्धैर्लवणयोगैश्च मृदु र्वातानुलोमनम्। १। ऊर्ध्वाधश्शोधनं शक्ते दुर्बले शमनं मतम्, कोलमज्जाञ्जनं लाजातिक्ता काञ्चनगैरिकम्। २। कृष्णाधात्री सिता शुंठी कासीसं दधिनाम च, पाटल्यास्सफलं पुष्पं कृष्णाखर्जूरमुस्तकम्। ३। षडेते पादिका लेहाः हिक्कानां मधुसंयुताः, मधुकं मधुसंयुक्तं पिप्पलीशर्करान्विता। ४। नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम्, स्तन्येन मक्षिकाविष्ठा नस्यं वा लक्तकाम्बुना। ५। योज्यं हिक्काभिभूताय स्तन्यं वा चन्दनान्वितम्, मधुसौवर्चलोपेतं मातुलङ्गरसं पिबेत्। ६। हिक्कार्तस्स्य पयश्चागं हितं नागरसाधितम्, कृष्णाऽमलकशुण्ठीनां चूर्णं मधुसितायुतम्। ७। मुहुर्मुहुः प्रयोक्तव्यं हिक्काश्वासनिवारणम्, हिक्काश्वासी पिबेद् भार्गीं सविश्वामुष्णवारिणा। ८। नागरं वा सिता भार्गी सौवर्चलसमन्वितम्। शृङ्गी कटुत्रिकफलात्रयकण्टकारी भार्गी सपुष्करजटालवणानि पञ्च, चूर्णं पिबेदशिशिरेण जलेन हिक्काश्वासोर्ध्ववातकसनारुचिपीनसेषु। ९। अभयानागरकल्कं पौष्करयवशूकमरिचकल्कं वा, तोयेनोष्णेन पिबेत् श्वासी हिक्की च तच्छान्त्यै। १०। अमृतानागरभार्गीव्याघ्रीपर्णाशसाधितः क्वाथः, पीतस्सकणाचूर्णः कासश्वासौ जयत्याशु। ११।
वेक्किळ्ळु श्वास गलिगि बाधपडु रोगिविषयमुन मुन्दुगा नूनेनु चरिमिन पदार्थमुलचेत गानि, मृदुवुलगु लवणयोगमुलचेत गानि चेमटनु पुट्टिंचुट युत्तममु, वातमुनु अनुकूलमुगा वर्तिंपचेयुटयुनु मंचिदे