भारतकोश
चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)

Charaka Samhita Part 1 with Hindi Translation

महर्षि चरक व अग्निवेश द्वारा

स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)

DevanagariSanskritpublished639 पृष्ठ

पृष्ठ 337, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 337

अ० २६ ] सूत्रस्थानम् ३१६ यच्चापि देश-कालाग्नि-मात्रा'-सात्म्यानिलादिभिः । संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि ॥ ८४ ॥ परिहारोपचाराभ्यां पाकात्संयोगतोऽपि च । विरुद्धं तच्च न हितं हृत्संपद्विधिभिश्च यत् ॥ ८५ ॥ विरुद्धं देशतस्तावद्रूक्षतीक्ष्णादि धन्वनि । आनूपे स्निग्धशीतादि भेषजं यन्निषेव्यते ॥ ८६ ॥ कालतोऽपि विरुद्धं यच्छीत-रूक्षादि-सेवनम् । शीते काले तथोष्णे च कटूकोष्णादिसेवनम् ॥ ८७ ॥ विरुद्धमनले तद्वन्नानुरूपं चतुर्विधे । मधुसर्पिः समधृतं मात्रया तद्विरुध्यते ॥ ८८ ॥ कटूष्णोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम् । यत्तत्सात्म्यविरुद्धं तु, विरुद्धं त्वनिलादिभिः ॥ ८६ ॥ या समानगुणाभ्यासविरुद्धात्रौषधक्रिया । संस्कारतो विरुद्धं तद्यद्रोज्यं विषवद् भवेत् ॥ ९० ॥ ऐरण्डसीसकासक्तं शिखिमांसं तथैव हि । विरुद्धं वीर्यतो ज्ञेयं वीर्यतः शांतलात्मकम् ॥ ९१ ॥ तत्संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते । क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यमभेदनम् ॥ ९२ ॥ मृदुकोष्ठस्य गुरु च भेदनीयं तथा बहु । एतत्कोष्ठविरुद्धं तु, विरुद्धं स्यादवस्थया ॥ ९३ ॥ श्रम-व्यवाय-व्यायाम-सक्तस्यानिलकोपनम् । निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम् ॥ ९४ ॥ यच्चानुत्सृज्य विण्मूत्रं भुङ्क्ते यच्चाबुभुक्षितः । तच्च क्रमविरुद्धं स्याद्यच्चातिक्षुद्वशानगः ॥ ९५ ॥ परिहारविरुद्धं तु वराहादीन्निषेव्य यत् । सेवेतोष्णं, घृतादींश्च पीत्वा शीतं निषेवते ॥ ९६ । विरुद्धं पाकतश्चापि दुष्टदुर्दारुसाधितम् । अपक्व-तण्डुलात्यर्थ-पक्व-दग्धं च यद्भवेत् । संयोगतो विरुद्धं यद्यथाऽम्लं पयसा सह । अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते ॥ ९८ ॥