चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)
Charaka Samhita Part 1 with Hindi Translation
महर्षि चरक व अग्निवेश द्वारा
स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)
पृष्ठ 354, कुल 639 में से
संदर्भ में पढ़ेंग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम् ॥ ८९ ॥ कालशाकं तु कटुकं दीपनं गरशोफजित् । लघूष्णं वातलं रूक्षं कालीयं शाकमुच्यते ॥ ९० ॥ दीपनी चोष्णवीर्या च ग्राहिणी कफमारुते । प्रशस्यतेऽम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा ॥ ९१ ॥ मधुरा मधुरा पाके भेदिनी श्लेष्मवर्धिनी । वृष्या स्निग्धा च शीता च मदघ्नी चाप्युपोदिका ॥ ९२ ॥ रूक्षो महाविषघ्नश्च प्रशस्तो रक्तपित्तिनाम् । मधुरोऽमधुरः पाके शीतलस्तण्डुलीयकः ॥ ९३ ॥ मण्डूकपर्णी वेत्राग्रं कुचेला वनतिक्तकम् । कर्कोटकावल्गुजकौ पटोलं शकुलादनी ॥ ९४ ॥ वृषपुष्पाणि शार्ङ्गेष्टा केबूकं सकठिल्लकम् । नाडीं कलायं गोजिह्वा वार्त्ताकं तिलपर्णिका ॥ ९५ ॥ कुलकं कर्कशं निम्बं शाकं पार्पटकं च यत् । कफपित्तहरं तिक्तं शीतं कटु विपच्यते ॥ ९६ ॥ सर्वाणि सूप्यशाकानि फञ्जी चिल्ली कुतुम्बकः । आलुकानि च सर्वाणि सपत्राणि कुटिञ्जरम् ॥ ९७ ॥ शणशाल्मलिपुष्पाणि कर्बुदारः सुवर्चला । निष्पावः कोविदारश्च पत्तूरश्चुचुपर्णिका ॥ ६७ ॥ कुमारजीवो लोट्टाकः पालङ्क्या मारिषस्तथा । कलम्बनालिकासूयः कुसुम्ववृकधूमकौ ॥ ९९ ॥ लक्ष्मणा प्रपुन्नाडं च नलिनीका कुठेरकः । लोणिका यवशाकं च कुष्माण्डकमवल्गुजम् ॥ १०० ॥ यातुकः शालकल्याणी त्रिपर्णी पीलुपर्णिका । शाकं गुरु च रूक्षं च प्रायो विष्टभ्य जीर्यति ॥ १०१ ॥ मधुरं शीतवीर्यं च पुरीषस्य च भेदनम् । स्विन्नं निष्पीडितरसं स्नेहाढ्यं तत्प्रशस्यते ॥ १०२ ॥ शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः । पुष्पं ग्राहि प्रशस्तं च रक्तपित्ते विशेषतः ॥ १०३ ॥ न्यग्रोधोदुम्बराश्वत्थ-प्लक्ष-पद्मादि-पल्लवाः । कषायाः स्तम्भनाः शीता हिताः पित्तातिसारिणाम् ॥