चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)
Charaka Samhita Part 1 with Hindi Translation
महर्षि चरक व अग्निवेश द्वारा
स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)
पृष्ठ 359, कुल 639 में से
संदर्भ में पढ़ेंअ० २७ ] सूत्रस्थानम् ३४१ मधुरं बृंहणं बल्यमाम्रातं तर्पणं गुरु । सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्यति ॥ १२७ ॥ तालशस्यानि सिद्धानि नारिकेलफलानि च । बृंहणस्निग्धशीतानि बल्यानि मधुराणि च ॥ १२८ ॥ मधुरामलकषायं च विष्टम्भि गुरु शीतलम् । पित्तश्लेष्मकरं भव्यं ग्राहि वक्त्रविशोधनम् ॥ १२९ ॥ अम्लं परूषकं द्राक्षा बदराण्यारुकाणि च । पित्त-श्लेष्म-प्रकोपीणि कर्कन्धुलकुचान्यपि ॥ १३० ॥ नात्युष्णं गुरु संपक्वं स्वादुप्रायं मुखप्रियम् । बृंहणं जीर्यति क्षिप्रं नातिदोषलमारुकम् ॥ १३१ ॥ द्विविधं शीतमुष्णं च मधुरं चाम्लमेव च । गुरु पारावतं ज्ञेयमरुच्यत्यग्निनाशनम् ॥ १३२ ॥ भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते । तथैवाल्पान्तरगुणं तूदमम्लपरूषकात् ॥ १३३ ॥ कषायमधुरं टङ्कं वातलं गुरु शीतलम् । कपित्थं विषकण्ठघ्नमामं संग्राहि वातलम् ॥ १३४ ॥ मधुरामलकषायत्वात्सौगन्ध्याच्च रुचिप्रदम् । तदेव पक्वं दोषघ्नं विषघ्नं ग्राहि गुर्वपि ॥ १३५ ॥ बिल्वं तु दुर्जरं सिद्धं दोषलं पूतिमारुतम् । स्निग्धोष्णतीक्ष्णं तद्बालं दीपनं कफवातजित् ॥ १३६ ॥ वातपित्तकरं बालमापूर्णं पित्तवर्धनम् । पक्वमाम्रं जयेद्वायुं मांसशुक्रबलप्रदम् ॥ १३७ ॥ कषायमधुरप्रायं गुरु विष्टम्भि शीतलम् । जाम्बवं कफपित्तघ्नं ग्राहि वातकरं परम् ॥ १३८ ॥ मधुरं बदरं स्निग्धं भेदनं वातपित्तजित् । तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते ॥ १३९ ॥ कषायमधुरं शीतं ग्राहि सिम्बितिकाफलम् । गाङ्गेरुकं करीरं च बिम्बीतोदनधन्वनम् ॥ १४० ॥ मधुरं सकषायं च शीतं पित्तकफापहम् । संपक्वं पनस मोचं राजादनफलानि च ॥ १४१ ॥ स्वादूनि सकषायाणि स्निग्धशीतगुरूणि च ।