चरक संहिता (प्रथम भाग: सूत्र, निदान, विमान, शारीर व इन्द्रिय स्थान)
Charaka Samhita Part 1 with Hindi Translation
महर्षि चरक व अग्निवेश द्वारा
स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)
पृष्ठ 420, कुल 639 में से
संदर्भ में पढ़ें४०२ चरकसंहिता [ अ० ३० रोगानीके व्याधिरूपे रोगाणां च भिषग्जिते ॥ ४८ ॥ अष्टौ विमानान्युक्तानि मानार्थानि महर्षिणा । विमान स्थान में रस विमान, त्रिविधकुक्षीय, जनपदोद्ध्वंसनीय, त्रिवि- धरोग-विशेषविज्ञानीय, स्रोतोविमान, रोगानीक, व्याधिरूपीय और रोगभिष- गिजतीय—ये आठ अध्याय हैं ॥ ४७-४८ ॥ कतिधापुरुषीयं च गोत्रेणातुल्यमेव च ॥ ४९ ॥ खुड्डीका महती चैव गर्भावक्रान्तिरुच्यते । पुरुषस्य शरीरस्य विचयौ द्वौ विनिश्चितौ ॥ ५० ॥ शरीरसंख्या सूत्रं च जातेरष्टमसमुच्यते । इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना ॥ ५१ ॥ शारीर स्थान में कतिधापुरुषीय, अतुल्यगोत्रीय, खुड्डीकागर्भावक्रान्ति, पुरुष- विचय, शारीरविचय, शरीरसंख्या और जातिसूत्रीय ये आठ अध्याय हैं ॥ ४९-५१॥ वर्णस्वरीयः पुष्पाह्वयस्तृतीयः परिमर्षणः । तथैव चेन्द्रियानीकः पूर्वरूपिक एव च ॥ ५२ ॥ कतमानिशरीरीयः पन्नरूपोऽप्यवाक्शिराः । यस्य श्यावनििमत्तश्च सद्योमरण एव च ॥ ५३ ॥ अणुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान् । द्वादशाध्यायकं स्थानमिन्द्रियाणां प्रकीर्तितम् ॥ ५४ ॥ वर्णस्वरीय, पुष्पितक, परिमर्षणीय, इन्द्रियानीक, पूर्वरूपीय, कतमानि शरीराणि, पन्नरूपीय, अवाक्शिरसीय, यस्यश्यावनििमत्तीय, सद्योमरणीय, अणु- ज्योतीय और गोमयचूर्णीय ये बारह अध्याय इन्द्रियस्थान में हैं ॥ ५२-५४ ॥ अभयामलकीयं च प्राणकामीयमेव च । करप्रचितिकं वेदसमुत्थानं रसायनम् ॥ ५५ ॥ संयोगशरमूलीयमासक्तक्षीरिकं तथा । माषपर्णभृतीयं च पुमाञ्जातबलादिकम् ॥ ५६ ॥ चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते ॥ रसायनमिति ज्ञेयं वाजीकरणमेव च ॥ ५७ ॥ ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः । शोषोन्मादेऽप्यपस्मार-क्षत-शोफोदराशसाम् ॥ ५८ ॥ ग्रहणीपाण्डुरोगाणां श्वासकासातिसारिणाम् । छर्दिर्वीसर्पतृष्णानां विषमद्यविकारिणाम् ॥ ५९ ॥