चरक संहिता (द्वितीय भाग: चिकित्सा, कल्प व सिद्धि स्थान)
Charaka Samhita Part 2 with Hindi Translation
महर्षि चरक व दृढ़बल द्वारा
स्रोत: चौखम्बा विद्याभवन · चौखम्बा विद्याभवन (उद्गम)
पृष्ठ 220, कुल 616 में से
संदर्भ में पढ़ें२०६ चरकसंहिता [ अ० १ हो जाता है, वह पर्वत के समान लम्बा-चौड़ा डीलडौल का, वायु के समान पराक्रमी हो जाता है । विष भी इसके शरीर में पहुचकर अविष, ( विषरहित ) बन जाता है। यह ब्राह्म रसायन का द्वितीय योग है ॥ ५८-६० ॥ बिल्वोऽग्निमन्थः श्योनाकः काश्मरी पाटलिर्बला । पर्ण्यश्वतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ॥ ६१ ॥ शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरुः । अभया चामृता ऋद्धिर्जीवकर्षभकौ शठी ॥ ६२ ॥ मुस्तं पुनर्नवा मेदा एला चन्दनमुत्पलम् । विदारी वृषमूलानि काकोली काकनासिका ॥ ६३ ॥ एषां पलोन्मितान्भागान्शतान्यामलकस्य च । पञ्च दद्यात्तदैकत्र जलद्रोणे विपाचयेत् ॥ ६४ ॥ ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् । तच्चाऽऽमलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ॥ ६५ ॥ पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुला भिषक् । मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ॥ ६६ ॥ षट्पलं मधुनश्चात्र सिद्धशीते समावपेत् । चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा ॥ ६७ ॥ पलमेकं निदध्याच्च त्वगेलापत्रकेशरात् । इत्ययं च्यवनप्राशः परमुक्तं रसायनम् ॥ ६८ ॥ कासश्वासहरश्चैव विशेषेणोपदिश्यते । क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ॥ ६९ ॥ स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् । पिपासां मूत्रशुक्रस्थानदोषंश्चाप्यपकर्षति ॥ ७० ॥ अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम् । अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत्पुनर्युवा ॥ ७१ ॥ मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं बलमिन्द्रियाणाम् । स्त्रीषु प्रहर्षं परमग्निवृद्धि वर्णप्रसादं पवनानुलोम्यम् ॥ ७२ ॥ रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् । जराकृतं रूपमपास्य सर्वं बिभर्ति रूपं नवयौवनस्य ॥ ७३ ॥ इति च्यवनप्राशः । च्यवनप्राश—बेल की छाल, अरणी की छाल, अरलु की छाल, गम्भारी की