दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 104, कुल 474 में से
संदर्भ में पढ़ें१०६ दशकुमारचरितम् । [ पूर्वपीठिकायां
लज्जामपनयन्सुरतरागमुपनयन् रहोविश्रम्भमुपजनयन् संलापे तदनुलाप- पीयूषपानलोलश्चित्रचित्रं चित्तहारिणं चतुर्दशभुवनवृत्तान्तं श्रावयामास । इति श्रीदण्डिनः कृतौ दशकुमारचरितेऽवन्तिसुन्दरीपरिणयो नाम पञ्चम उच्छ्वासः । इति पूर्वपीठिका
पीयूषममृतं तस्य पाने सानुरागाकर्षणे लोलश्चञ्चलः । चित्रचित्रम् अत्याश्चर्यजन- कम् । चतुर्दशानां भुवनानां वृत्तान्तमाख्यायिकाम् श्रावयामास । अवन्तिसुन्दरी- मिति शेषः । आख्यायिकाश्रवणे युवतीनां बलवती स्पृहा भवतीति ध्येयम् । इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्यायां दशकुमारचरितव्याख्यायां पञ्चमोच्छ्वासः । समाप्ता पूर्वपीठिका
राजपुत्रीकी सुधारूपी मधुर वचनावली एवं बहुत तरहकी मीठी बातोंको जिज्ञासासे सुना। फिर उसे चित्तहारी चौदहों भुवनोंकी मनोहर आख्यायिकाएँ सुनायीं-और समयोचित आनन्द करने लगा । इस प्रकारसे दशकुमारचरितके पञ्चमोच्छ्वासकी बालक्रोड़ा नामक हिन्दी टीका समाप्त हुई । पूर्वपीठिका समाप्त ।