दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 124, कुल 474 में से
संदर्भ में पढ़ें१२६ दशकुमारचरितम् । [ उत्तरपीठिकायां नाज्ञाकरः । सोऽप्यहमेव ह्यमुना रूपेण धनमित्राख्यया चान्तरितो मन्त- व्यः । स एवायं निर्गमय्य बन्धनादङ्गराजमपवर्जितं च कोशवाहनमेकी- कृत्यास्मद्गृहेणामुना सह राजन्यकेनैकान्ते सुखोपविष्टमिह देवमुपति- ष्ठतु यदि न दोषः' इति । ( २५ ) देवोऽपि 'यथा ते रोचते' तमाभाष्य गत्वा च तन्निर्दिष्टेन मार्गेण नगराद्वहिरतिमहतो रोहिणद्रुमस्य कस्यचित्क्षौमावदातसैकते गङ्गातरङ्गपवनपातशीतले तले द्विरदादवततार । प्रथमसमवतीर्णेनापहार-
अहमेव किन्तु अमुना दृश्यमानेन रूपेणाकारेण धनमित्राख्यया। धनमित्रेति नाम्ना च अन्तरितः पृथक्कृतः । मन्तव्यो ज्ञातव्यः । ममैवात्मा धनमित्रनाम्ना तदाकारेण च आच्छादितो वर्त्तते-अभिन्नहृदयावावामिति भावः। स एवार्थं-धनमित्रः । निर्गमय्य मोचयित्वा । बन्धनात् कारागृहात् । अङ्गराजमिति शेषः । अपवर्जितं इतस्ततो विक्षिप्तम् । एकीकृत्य सङ्गृह्य । अस्मद्गृहेण अस्मत्पक्षीयेण । एकान्ते निर्जने। देवं भवन्तम् । उपतिष्ठतु समीपे तिष्ठतु । ( २५ ) देवोऽपि राजवाहनोऽपि । ते तुभ्यं, रुच्यर्थानामिति चतुर्थी । तम- पहारवर्माणम् । रोहिणद्रुमस्य वटवृक्षस्य । तले इत्यनेनान्वयः । क्षौमेति-क्षौमवत् पट्टवस्त्रवत् अवदातं निर्मलं यत् सैकतं सिकतामयप्रदेशस्तस्मिन् गङ्गेति-गङ्गाया- स्तरङ्गपवनस्य तरङ्गयुक्तवायोः पातेन पतनेन शीतले । तले इत्यस्य विशेषणम् । द्विरदाद् गजात् । प्रथमसमवतीर्णेन प्रागेव गजादवरूढेन । स्वहस्तेन निजकरेण
दासपर कृपादृष्टि करके अनुग्रह कीजिये। मैं ही अभीतक धनमित्र नामसे इस रूपमें प्रख्यात होकर गुप्त वेशमें फिरता था। इस धनमित्रने ही अंगराजको बन्धनमुक्त करके प्रणष्ट कोश तथा वाहनको एकत्र किया है। अब जब हमारे पक्षवाले राजा उनके साथ एकान्तमें सुखसे बैठे हैं, यदि आप कुछ हानि न समझें तो कुछ क्षणके लिए उनसे चलकर भेंट कर लें।' ( २५ ) राजवाहन ने कहा-'तुम्हारी जैसी अभिलाषा हो वैसा करो' और उस हाथीपर चढ़कर वे दोनों वहींसे चल पड़े। अपहारवर्माके प्रदर्शित मार्गसे चलकर नगरके बाहर थोड़ी ही दूरीपर एक विशाल तथा सघन वृक्षके नीचे वे लोग रुके। वहाँ पर रेशमके समान स्वच्छ बालू फैली पड़ी थी जो गंगाकी तरंगोंके पवनसे सम्मिश्रित होकर आने- वाले शीतल झोंकोंसे अति शीतल हो रही थी। वे लोग वहींपर हाथीपरसे उतरे। अपहारवर्मा राजवाहनसे पहले ही उतरा तथा जल्दी-जल्दी प्रयास करके उसने उस