दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 135, कुल 474 में से
संदर्भ में पढ़ेंद्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १३७ स्वधर्ममुल्लङ्घ्य क्वचिदागन्तुके रूपमात्रधने विप्रयूनि स्वेनैव धनव्ययेन रममाणया मासमात्रमत्यवाहि । गम्यजनश्च भूयानर्थयोग्यः प्रत्याचक्षाण- यानया प्रकोपितः । स्वकुटुम्बकं चावसादितम् ‘एषा कुमतिर्न कल्याणी, इति निवारयन्त्यां मयि वनवासाय कोपात्प्रस्थिता । सा चेदियमहार्य- निश्चया सर्व एष जनोऽत्रैवानन्यगतिरनशनेन संस्थास्यते, इत्यरोदीत् । (८) अथ सा वारयुवतिस्तेन तापसेन ‘भद्रे, ननु दुःखाकरोऽयं वन- मातृकाया वा शासने वर्त्तितव्यमिति भावः । एवं स्थिते-एतादृश्यां मर्यादा- याम् । अनया काममञ्जर्या । प्रजापतिविहितं विधिनिर्दिष्टम् । स्वधर्मं गणिकोचित- कर्त्तव्यम् । क्वचित् अपरिचिते । रूपमात्रं धनं यस्य तस्मिन्, यस्य सौन्दर्यमेव वर्त्तते न तु धनमिति भावः । विप्रयूनि ब्राह्मणयुवके । स्वेनैव धनव्ययेन कामम- ञ्जर्या एव धनव्ययेन । रममाणया विहरन्त्या । अत्यवाहि यापितम् । गम्य- जनः विटजनः भूयान् अधिकः । अर्थयोग्यः धनप्रदानसमर्थः प्रत्याचक्षा- णया जनः भूयान् अधिकः । अर्थयोग्यः धनप्रदानसमर्थः प्रत्याचक्षाणया प्रत्याख्यानं कुर्वत्या । अनया काममंजर्या । प्रकोपितः रोषितः । स्वकुटुम्बकं निजपरिवारवर्गः । अवसादितं—धनाभावादवसन्नीकृतम् , कष्टं प्रापितमिति भावः । एषा एतादृशी । कुमतिः कुत्सुद्विस्तवेति शेषः । कल्याणी शुभप्रदा । मयि काम- मञ्जर्या मातरि । वनवासाय अरण्यवासं कर्तुम् । कोपात् क्रोधमाश्रित्य । इयं काममञ्जरी । अहार्यनिश्चया अहार्यः हर्तुं निवारयितुमशक्यो निश्चयः प्रतिज्ञा यस्याः सा । दृढनिश्चयेत्यर्थः । एष जनः अस्मदादिः । अत्रैव भवत्पुरत एव । संस्थास्यते मरिष्यति । संस्थानं मरणं मतमिति वैजयन्ती । अरोदीत् विललाप, सा वृद्धा गणिकामातेति शेषः । (८) अथानन्तरं तेन पूर्वोक्तेन तापसेन मरीचिना सा वारयुवतिर्गणिका धर्मका अतिक्रमण करके किसी रूपमात्रके धनी परदेशी युवकपर रीझ करके अपना ही व्यय करती हुई एक महीनेका समय बिताया । इसी बीच कितने ही बड़े-बड़े धनी-मानी आये, जिसके साथ यह सुखसे रह सकती थी, किन्तु, इसने उनका तिरस्कार करके नाराज कर दिया । अपने कुटुम्बियोंको भी बहुत तकलीफ दी । जब मैंने ‘यह कुमति ठीक नहीं है' यों कह करके वैसा करनेसे रोका तो, मारे क्रोधके यह वनवासके लिए घरसे निकल पड़ी । सो यदि इसका यह दृढ़ निश्चय है तो, असहायभावसे सारा कुटुम्ब अनशन करता हुआ इसी जगह मर मिटेगा । (८) इसके बाद उन तपस्वीजीने उस वेश्यासे कहा—‘भद्रे ! वनवास दुःखकी