दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 170, कुल 474 में से
संदर्भ में पढ़ें१७२ | दशकुमारचरितम् । | [ उत्तरपीठिकायां शरो भावरसानां सामग्र्यात्समुदितबल इव मामतिमात्रमव्यथयत् । (४०) अथासौ नगरदेवतेव नगरमोषरोषिता लीलाकटाक्षमाला- शृङ्खलाभिर्नीलोत्पलपलाशश्यामलाभिर्मामबध्नात् । नृत्योत्थिता च सा सिद्धिलाभशोभिनी-'किं विलासात्, किमभिलाषात्, किमकस्मादेव वा, न जाने, — असकृन्मां सखीभिरप्यनुपलक्षितेनापाङ्गप्रेक्षितेन सविभ्रमा- रेचितभ्रूलतमभिवीक्ष्य, सापदेशं च किंचिदाविष्कृतदशनचन्द्रिकं स्मित्वा, लोकलोचनमानसानुयाता प्रातिष्ठत । सामग्र्यात् सम्पूर्णतया । समुदितबलः प्राप्तसामर्थ्यः । अतिमात्रं गाढम् अव्य- थयत् अपीडयत् । (४०) अथ कामपीडनानन्तरम् । असौ रागमञ्जरी । लीलेति-लीलया विलासेन याः कटाक्षमालाः दृष्टिपंक्तयस्ता एव शृङ्खला बन्धनानि साधनानि ता- भिः। नीलोत्पलेति-नीलोत्पलानां यानि पलाशानि पत्राणि तद्वत् श्यामलाभिः कृष्णवर्णाभिः । शृङ्खला विशेषणमेतत् । अबध्नात् बबन्ध । नृत्योत्थिता नर्तना- द्विरता । सिद्धिलाभशोभिनी-मनोरथप्राप्तिशालिनी । सिद्धमनोरथेति यावत् । विलासाद् विभ्रमात् । अभिलाषात् स्वेच्छया । अकस्मात् विना कारणमित्यर्थः । असकृत् वारं वारम् । मामिति अभिवीक्ष्येत्यस्य कर्म । अनुपलक्षितेन अनवलो- कितेन । गुप्तरूपेणेति भावः । अपाङ्ग प्रेक्षितेन-कटाक्षावलोकनेन । सविभ्रमेति- सविभ्रमं सविलासं यथा तथा आरेचिते वक्रीकृते भ्रूलते भ्रूद्वयं यस्मिंस्तत्तथा तथा । अभिवीक्ष्य दृष्ट्वा । सापदेशं सकपटम् । किञ्चिदिति-किञ्चिदीषत्-आविष्कृता प्रकटिता दशनचन्द्रिका दन्तप्रभा यत्र तद्यथा तथा । स्मित्वा ईषद्विहस्य । लोके- ति-लोकानां जनानां लोचनैर्नेत्रैः मानसैश्चित्तैश्च अनुयाता अनुसृता । जनानां दूसरी रङ्गभूमि बन गया। उसकी सैनके कमलवनका निवासी कामदेव सभी भावों और सभी रसोंसे सम्पन्न एवं बलवान बनकर बहुत बुरी तरह सताने लगा । (४०) तदनन्तर नगरमें चोरीके करनेके कारण रोषिता नगरदेवीके सदृश उस सुन्दरी काममंजरीने अपने नीले कमलके पत्रोंके तुल्य आभावाले विलासी श्यामल कटाक्षोंकी श्रृंखला-(सीकड़ी-) से मुझे बद्ध कर लिया तथा नृत्यसे विरत होकर वह मनोरथप्राप्ति- शालिनी रागमञ्जरी अपने विलाससे या अभिलाषसे वा अकस्मात् (बिना कारण ही) न मालूम क्यों सखियोंसे भी छिपाकर अपने अपांगोंसे मुझे बार-बार देखती हुई एवं विलासके व्याजसे अपनी भौंहोंको तरेरती हुई और गुप्तरीत्या (कपटसे) अपनी दन्तप्रभा दिखाती हुई-मुस्कुराती हुई-जनोंके नेत्रों और चित्तोंको अपने साथ लेती हुई घरको चली गयी ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu