दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 179, कुल 474 में से
संदर्भ में पढ़ेंद्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । १८१ त्वं च निःस्वीभूता । चर्मरत्नं च धनमित्रमेव प्रतिभजिष्यति । तदियमा- पत्समन्ततोऽनर्थानुबन्धिनी । तत्किमत्र प्रतिविधेयम्' इति । ( ४६ ) तया तज्जनन्या चाश्रूणि विसृज्योक्तम्-'अस्त्येवैतदस्मद्बा- लिश्यान्निर्भिन्नप्रायं रहस्यम् । राज्ञश्च निर्बन्धाद् द्वित्रिश्चतुर्निहुत्यापि निय- तमागतिरपदेश्यैव चोरितस्य त्वयि । त्वयि त्वपदिष्टे सर्वमस्मत्कुटुम्बम- वसीदेत् । अर्थपतौ च तदपयशो रूढम् । अङ्गपुरप्रसिद्धं च तस्य कीनाशस्यास्माभिः संगतम् । अमुनैव तदस्मभ्यं दत्तमित्यपदिश्य वर- मात्मा गोपायितुम्' इति मामभ्युपगमय्य राजकुलमगमत्ताम् । राज्ञानुयुक्ते अरी । निःस्वीभूता-दरिद्रीकृता । प्रतिभजिष्यति-प्राप्स्यति । समन्ततः सर्वतः । अनर्थानुबन्धिनी-अनर्थोत्पादिका । अत्रास्मिन् विषये । प्रतिविधेयं कर्त्तव्यम् । ( ४९ ) तया काममञ्जर्या । तज्जनन्या तन्मात्रा च । अस्त्येवैतत्-सत्यमेवै- तत् । अस्मद्बालिश्यात्-अस्माकं मूर्खतया । निर्भिन्नप्रायं-बाहुल्येन प्रकाशि- तम् । निर्बन्धात् आग्रहातिशयात् । द्विर्द्विवारम् । त्रिस्त्रिवारं चतुश्चतुर्वारम् । द्वित्रिचतुर्भ्यः सुजिति सुच् प्रत्ययः । निहुत्य संगोप्य । आगतिः प्राप्तिहेतुत्वम् । चोरितस्य अपहृतस्य पदार्थस्य । अपदिष्टे कीर्त्तिते चोरत्वेनेति शेषः । अवसीदेत् । विनश्येत् । तदपयशः-चर्मरत्नचौर्यापवादः । रूढं प्रसिद्धम् । तस्य अर्थपतेः । कीनाशस्य-क्षुद्रस्य । संगतं मैत्री । अमुना अर्थपतिना । तत्-चर्मरत्नम् । वरं मनागिष्टः । गोपायितुं रक्षितुम् । अभ्युपगमय्य बोधयित्वा । अगमतां गतवत्यौ । चर्मरत्नभस्त्रिका-जिससे धनकी प्राप्ति होनेकी आशा है वह भी-धनमित्रको ही मिल जायगी । इस कारणसे यह आपत्ति सर्वथा अनर्थकारिणी है अत एव इस विषयमें क्या उपाय करना चाहिये । ( ४९ ) इस पर वह काममञ्जरी और उसकी माता माधवसेनाने आंख से आंसुओंको छोड़ते हुए कहा- 'यह सर्वदा सत्य है कि, हम लोगोंकी मूर्खताके कारण ही यह रहस्य बहुलतासे प्रकाशित हो गया है । राजाके अतिशय आग्रहसे यदि आपने दो बार तीन बार चार बार बातको छिपानेपर फिर अपहृत ( चोरी की हुई ) वस्तुके विषयमें कह दिया तो, आप पर ही चोरीका सन्देह हो जायगा । और आपके नाम-कथनसे हमारा सारा परिवार विनष्ट हो जायगा । वह चर्मरत्नभस्त्रिका का चौर्यापवाद अर्थपतिके लिए प्रसिद्ध हो चुका है । अङ्गपुरमें यह प्रसिद्धि है ही कि, उस क्षुद्र अर्थपतिके साथ हम लोगोंकी मैत्री है । ऐसी अवस्थामें हम लोग यह कह करके अपनी रक्षाका उपाय ठीक सोचती हैं कि यह चर्मरत्नभस्त्रिका मुझे उसी अर्थपति ने दी है ।' ऐसा मुझे समझा करके वे लोग राजदरबारमें