दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 18, कुल 474 में से
संदर्भ में पढ़ें१८ दशकुमारचरितम् । [ पूर्वपीठिकायां ( ३७ ) अथार्धरात्रे निद्रानिलीननेत्रे परिजने विजने शोकपारावारमपा- रमुत्तर्तुमशक्नुवती सेनानिवेशदेशं निःशब्दलेशं शनैरतिक्रम्य यस्मिनरथ- ह्य संसक्ततया तदानयनपलायनश्रान्ता गन्तुमक्षमाः क्ष्मापतिरथ्याः पथ्याकुलाः पूर्वमतिष्ठंस्तस्य निकटवटतरोः शाखायां मृतिरेखायामिव कचिदुत्तरीयार्धेन बन्धनं मृतिसाधनं विरच्य मर्तुकामाभिरामा वाङ्मा- धुर्यविरसीकृतकल-कण्ठ-कण्ठा साश्रुकण्ठा व्यलपत्—'लावण्योपमितपुष्प- सायक, भूनायक, भवानेव भाविन्यपि जन्मनि वल्लभो भवतु' इति । - २०२२ ( ३८ ) तदाकर्ण्य नीहारकरकिरणनिकरसंपर्कलब्धावबोधो मागधो- (३७) अर्धरात्रे निशीथे । निद्रया निलीने परिमिलिते नेत्रे नयने यस्य तस्मिन् । परिजनेऽनुचरमण्डले । विजने निर्जने एकान्ते इत्यर्थः । शोकपारावारं शो- कसागरम् । अपारं दुरुतरम् । उत्तर्तुं लङ्घयितुम् । सेनानिवेशस्य शिविरस्य देशं प्रदेशम् । निर्नास्ति शब्दस्य लेशो लवोपि यस्मिंस्तद् यथा तथा । संसक्ततया सं- लग्नतया । तस्य राज्ञः आनयने वहने श्रान्ताः परिश्रान्ताः अत एव गन्तुं चलि- तुम् अक्षमा असमर्थाः । क्ष्मापतेः राज्ञो राजहंसस्य । रथ्या अश्वाः । पथि मार्गे आ- कुलाः दूरगमनेनातिशयक्लान्ताः । निकटवटतरोः समीपस्थवटवृक्षस्य । मृतेर्मरणस्य रेखा लेखा चिन्हभूतेति भावः तस्याम् । बन्धनं पाशम् । मृतिसाधनं मरणसाधकम् । विरचय्य विधाय । मर्तुं कामोऽभिलाषो यस्याः सा । वाङ्माधुर्य्या वचनमाधुर्य्येण विरसीकृतो नीरसीकृतः कलकण्ठस्य कोकिलस्य कण्ठो यया सा। साश्रुकण्ठा सगद्गद- स्वरा । व्यलपत् अरोद् । लावण्येन देहसौन्दर्य्येण उपमितस्तुलितः पुष्पसायकः कामो येन तत्सम्बोधने । भूनायक भूपते । भाविनि भविष्यति । वल्लभः पतिः । (३८) नीहाराः शीतलाः कराः किरणा यस्य सः नीहारकरश्चन्द्रस्तस्य किरण- निकरस्य मयूखसमूहस्य सम्पर्कण संस्पर्शेन लब्धः प्राप्तोऽवबोधश्चैतन्यं येन सः । (३७) जब आधी रातमें सब दास-भृत्य आदि सो गये तब एकान्तमें महारानी वसुमती, जो अपार शोक समुद्रको पार करनेमें अपनेको असमर्थ समझती थीं, धीरे-धीरे उस स्थानपर गयीं जहाँ पर राजाके रथको लिये हुए घोड़े थककर शान्तिकी निद्रा ले रहे थे। उसीके समीप बड़के पेड़की मृत्युरेखा सदृश किसी शाखामें उत्तरीय वस्त्र (चादर) को बाँधकर (फाँसीकी रस्सी सी बनाकर) मरनेके लिए तत्पर हो गयीं। जो कोयलकी ध्वनिको भी तिरस्कृत कर चुकी थीं ऐसी मीठी ध्वनिसे रोदन करके कहने लगीं—'हे लावण्यतासे उपमित कामदेवके समान राजन् ! आप पुनः मेरे आगामी जीवनमें भी प्राणपति हों।' (३८) रानीके विलाप करनेपर तथा शीतल चन्द्रकी किरणोंसे स्पर्शित होकर एवं मन्द