दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 181, कुल 474 में से
संदर्भ में पढ़ेंपटच्चरच्छेदशेषोऽर्थपतिरर्थमत्तः सर्वपौरजनसमक्षं निरवास्यत । तस्यैव द्रव्याणां तु केनचिदवयवेन सा वराकी काममञ्जरी चर्मरत्नमृगतृष्ण- कापविद्धसर्वस्वा सानुकम्पं धनमित्राभिनोदितेन भूपेनान्वगृह्यत । धन- मित्रश्चाहनि गुणिने कुलपालिकामुपांयस्त । तदेवं सिद्धसंकल्पो राग- मञ्जरीगृहं हेमरत्नपूर्णमकरवम् । ( ५१ ) अह्मिश्च पुरे लुब्धसमृद्धवर्गस्तथा मुषितो यथा कपालपाणिः स्वैरेव धनैर्मद्विश्राणितैः समृद्धीकृतस्यार्थिवर्गस्य गृहेषु भिक्षार्थमभ्रमत् । न ह्यलममतिनिपुणोऽपि पुरुषो नियतिलिखितां लेखामतिक्रमितुम् । यतोऽ- रक्षणनिमित्ता । अप्रथत-विख्याताऽभवत् । भर्त्ता स्वामी-राजेत्यर्थः । पटच्चरेति- पटच्चरं जीर्णवस्त्रं तस्य च्छेदः खण्डः शेषोऽवशिष्टो यस्य सः । कौपीनमात्राव- शेष इत्यर्थः । तस्यैव अर्थपतेरेव । द्रव्याणां धनानाम् । अवयवेन अंशेन । चर्म- रत्नेति-चर्मरत्नस्य मृगतृष्णिकया मरीचिकया अपविद्धं नाशितं सर्वस्वं यया सा । सानुकंपं सकृपम् । धनमित्राभिनोदितेन धनमित्रप्रेरितेन । अन्वगृह्यत अनु- गृहीता । गुणिनि प्रशस्ते अहनीत्यस्य विशेषणम् । उपायंस्त परिणीतवान् । सिद्धसंकल्पः सिद्धमनोरथः । अपहारवर्मेति शेषः । ( ५१ ) लुब्धेति । लुब्धानां धूर्त्तानां समृद्धानां धनिनां वर्गः समूहः । कपाल- पाणिः-खर्परहस्तः । स्वैरेव निजैरैव । मद्विश्राणितैर्मया दत्तैः । समृद्धीकृतस्य पुष्टस्य धनीकृतस्येति यावत् । लुब्धानां धनान्यपहृत्य मया याचकेभ्यो दत्तानि । साम्प्रतं लुब्धानां धनेनैव ये समृद्धा याचकास्तेषां गृहेष्वेव ते लुब्धा भिक्षार्थं निर्वासित कर दें । यही इसके पापका दुष्परिणाम होगा । अर्थपतिके प्राण बचानेके कारण धनमित्रकी कीर्ति भी फैल गयी । और राजा भी धनमित्रपर प्रसन्न हो गया । कौपीनवेश बना करके सब पुरवासियोंके सामने ही अर्थपतिको राज्य-निर्वासित करा दिया । उसी अर्थपतिके धनका कुछ भाग उस तुच्छा काममञ्जरीको भी दिला दिया जो चर्मरत्नभस्रिका को दुहनेकी इच्छासे अपना सर्वस्व दान कर चुकी थी । धनमित्रकी प्रेरणासे राजाने प्रसन्नता प्रकट की । धनमित्रने शुभ दिवसमें कुलमालिकाके साथ पाणिग्रहण कर लिया । मैने (अपहारवर्माने) भी इस प्रकारसे सिद्धमनोरथ होने पर रागमञ्जरीके गृहको सुवर्ण, रत्न आदिसे परिपूर्ण कर दिया । ( ५१ ) इस नगरमें जितने भी धूर्त्त धनिक-समुदाय थे, उनके धनोंको इस रीतिसे आहरण करा दिया । जिससे उनके पास केवल एक-एक खर्परमात्र हाथोंमें अवशिष्ट रह गया । मेरे द्वारा वितरित किये हुए अपने ही धनको वे लोग उन याचकोंके घरपर मांगते