दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 187, कुल 474 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF द्वितीयोच्छ्वासः ] | व्याख्याद्वयोपेतम् । | १६६ किंचिदिव भर्त्सयित्वा मां समभ्यधत्त-‘न चेद्धनमित्रस्याजिनरत्नं प्रति- प्रयच्छसि, न चेद्वा नागरिकेभ्यश्चोरितानि प्रत्यर्पयसि, द्रक्ष्यसि पारम- ष्टादशानां कारणानामन्ते च मृत्युमुखम्’ इति । ( ५६ ) मया तु स्मयमानेनाभिहितम्-‘सौम्य, यद्यपि दद्यामाजन्मनो मुषितं धनं न त्वर्थपतिदारापहारिणः शत्रोर्मे मित्रमुखस्य धनमित्रस्य च- र्मरत्नप्रत्याशां पूरयेयम् । अदत्त्वैव तदयुतमपि यातनानामनुभवेयम् । इयं मे साधीयसी संधा’ इति । तेनैव क्रमेण वर्तमाने सान्त्वनतर्जनप्राये प्रतिदिनमनुयोगव्यतिकरेऽनुगुणान्नपानलाभात्कतिपयैरेवाहोभिर्विरोपि- तव्रणः प्रकृतिस्थोऽहमासम् ।
मदात् यौवनगर्वात्’ अनतिपक्वः-अपरिणतः । नागरिकः काराध्यक्षः । माम्- अपहारवर्माणम् । समभ्यधत्त अकथयत् । प्रतिप्रयच्छसि-प्रत्यर्पयसि नागरिकेभ्यः पुरवासिभ्यः । चोरितानि मुषितानि धनानि । कारणानां यातनानाम् । ‘कारणा तु यातना तीव्रवेदने’त्यमरः । मृत्युमुखमित्यस्य द्रक्ष्यसीत्यनेनान्वयः । (५६) मया अपहारवर्मणेत्यर्थः । स्मयमानेन ईषद्धास्यं कुर्वता । आज- न्मनः-जन्मन आरभ्य । मुषितं चोरितम् । मित्रमुखस्य कपटमित्रस्य । जन्मन आरभ्यैतावत्कालं यन्मया चोरितं तत्सर्वं दातुं शक्नुयां किन्तु धनमित्रस्य चर्म- रत्नप्राप्त्याशां न पूरयिष्यामीति भावः । तत्-चोरितधनम् । अयुतं दशसहस्रम् । साधीयसी दृढतरा । सन्धा प्रतिज्ञा । तेनैव क्रमेण-पूर्वोक्तप्रकारेण । वर्त्तमाने- चलति सति । सान्त्वनतर्जनप्राये सान्त्वनभर्त्सनबहुले । अनुयोगव्यतिकरे प्रश्न-
(अपहारवर्मासे) कहा-‘यदि धनमित्रकी चर्मरत्नभस्त्रिका न दोगे ?········यदि पुरवासियोंके चोरी किये द्रव्यको न लौटाओगे, तो अठारहो तरहकी कारागारकी यातनाओं- के भोगनेके पश्चात् मृत्युके मुखमें प्राप्त होगे ।’ ( ५६ ) मैंने (अपहारवर्माने ) मुस्कराते हुए कहा-‘हे सौम्य ! मैंने अपने जीवन- भरमें जो कुछ चोरी करके प्राप्त किया है । वह सब तो, मैं दे दूँगा, परन्तु, अर्थपतिकी स्त्रीको हरण करनेवाले अपने (मेरे) कपटी मित्र धनमित्रकी चर्मरत्न-भस्त्रिकासे प्राप्त धनकी प्रत्याशाको पूरी न होने दूँगा। चाहे मुझे ऐसा करनेपर दश हजार कठिन वेदनाओं- को क्यों न सहन करना पड़े। यह मेरी दृढ़ प्रतिज्ञा है।' इसी रीतिसे नित्य सान्त्वना और तिरस्कारके प्रश्न विनिमय करते हुए, मेरे अनुकूल भोजनाच्छादन मिलनेसे कुछ दिनोंमें, मेरे घाव, जो नगररक्षकोंसे युद्धमें हो गये थे, अच्छे हो गये मैं स्वस्थ हो गया ।
Nepal Sanskrit University, Balmeeki Campus, Kathmandu