दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 20, कुल 474 में से
संदर्भ में पढ़ें२० दशकुमारचरितम्। [ पूर्वपीठिकायां (४१) 'तत्र निहतसैनिकग्रामे संग्रामे मालवपतिनाराधितपुरारातिना प्रहितया गदया दयाहीनेन ताड़ितो मूर्च्छामागत्यात्र वने निशान्तपवनेन बोधितोऽभवम्' इति महीपतिरकथयत् । (४२) ततो विरचितमहेन मन्त्रिनिवहेन विरचितदैवानुकूल्येन कालेन शिबिरमानीयापनीताशेषशल्यो विकसितनिजाननारविन्दो राजा सहसा विरोपितव्रणोऽकारि । (४३) विरोधिवैवाधिककृतपुरुषकारो दैन्यव्याप्ताकारो मगधाधिपतिरधि- काधिरमात्यसंमत्या मृदुभाषितया तया वसुमत्यिा मत्या कलितया च समबोधि। (४१) निहतो निःशेषं विनष्टः सैनिकानां योधानां ग्रामः समूहो यस्मिन् तथा- भूते । आराधितः सन्तोषिताः पुरारातिर्महादेवो येन तथाभूतेन । प्रहितया प्रक्षिप्तया । दयया हीनो दयाहीनस्तेन निर्दयेनेत्यर्थः । आगत्य प्राप्य । निशाया रजन्या अन्ततः शेषो निशान्तः प्रभातं तस्य पवनेन तत्सम्बन्धिसमीरणेन बोधितो लब्धसंज्ञोऽभवम् अह्मिति शेषः । (४२) विरचितः कृतो मह उत्सवो येन तथाभूतेन । मन्त्रिनिवहेन अमात्य- संघेन विरचितं सम्पादितं दैवस्यानुकूल्यं साहाय्यं येन तथाभूतेन । कालेनेत्यस्य वि- शेषणम्, शुभमुहूर्ते इति भावः । शिबिरं सेनानिवेशम् । अपनीतानि दूरीकृतानि अशेषाणि सर्वाणि शल्यानि बाणाग्राणि यस्य सः । विकसितं प्रसन्नं निजाननार- विन्दं स्वमुखकमलं यस्य सः । विरोपिता औषधादिना चिकित्सिता व्रणा यस्य सः। (४३) विरोधिना प्रतिकूलेन दैवेन भागधेयेन धिक्कृतस्तिरस्कृतः पुरुषकारः विक्रमो यस्य सः। दैन्येन खेदेन व्याप्त आक्रान्तः आकारः स्वरूपं यस्य सः। अधि- काधिकोऽतिशयेनाधिक आधिर्मनोव्यथा यस्य सः । पुंस्याधिर्मानसी व्यथेत्यमरः । अमात्यानां मन्त्रिणां संमत्याऽनुमोदनक्रमेण। मृदु कोमलं भाषितंवचनं यस्यास्तया । मत्या बुद्ध्या । कलितया युक्तया । समबोधि विज्ञापितः। बुध्धातोः कर्मणि लुङ् । (४१) महाराजने उत्तर देते हुए कहा—'जब संग्राममें सब सैनिक मार डाले गये तब मालवेश मानसारने शिव-प्रसादसे प्राप्त गदा मुझे मारी जिससे मैं मूच्छित हो गया और इस वनके प्रातःकालिक शीतल पवनस्पर्शसे प्रतिबोधित हुआ।' (४२) तत्पश्चात् अमात्योंने अनेक प्रकारके उत्सव मनाये और राजाकी प्राणरक्षाके निमित्त देवाराधन किया। तथा राजाको शिबिरमें लाकर अस्त्रोंके व्रणोंकी औषध की। समुचित उपचारसे राजा शीघ्र ही प्रसन्नमुख-प्रहृष्टवदन—हो गया-शीघ्र अच्छा हो गया। (४३) दैवके प्रतिकूल होनेसे दीनतासे परिव्याप्त एवं खिन्न प्रकृतिवाले तथा विफल पौरुषवाले उन मगधराजकी सेवा मन्त्रिगणोंकी सम्मतिसे तथा निज बुद्धिसे रानी वसुमती करने लगी सान्त्वना देने लगी।