भारतकोश
दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

पृष्ठ 223, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 223

[Page Header] CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २२३ [Page Header Ends]

नीतां चैनां निर्वर्ण्य सा नियतमेवं वक्ष्यति । 'नन्वस्ति कश्चिदीदृशाकारः पुमान्' इति । प्रतिब्रूह्येनाम्—'यदि स्यात्ततः किम्' इति । तस्य यदुत्तरं सा दास्यति 'तदहमस्मि प्रतिबोधनीय' इति । (१२) सा 'तथा' इति राजकुलमुपसंक्रम्य प्रतिनिवृत्ता मामेकान्ते न्यवेदयत्—'वत्स, दर्शितोऽसौ चित्रपटस्तस्यै मत्तकाशिन्यै । चित्रीय- माणा चासौ भुवनमिदं सनाथीकृतं यद्देवेऽपि कुसुमधन्वनि नेदृशी वपुः- श्रीः संनिधत्ते । चित्रमेतत्किञ्चित्रतरम् । न च तमवैमि य ईदृशमिदमिह्त्यो निर्मिमीते । केनेदमालिखितम्' इत्याहृतवती व्याहृतवती च । मया च सा कल्पसुन्दरी । नियतम् अवश्यम् । एवं वक्ष्यमाणम् । ईदृशाकारः ईदृश एवम्भूत आकार आकृतिर्यस्य सः । प्रतिब्रूहि-प्रत्युत्तरय । यदि स्यात्-ईदृशाकारः पुरुषो यदि लभ्येत । ततस्तर्हि । किम् भविष्यतीति शेषः । तस्य वचनस्य । उत्तरं प्रतिवचनम् । सा राजपत्नी । तत् प्रतिवचनम् । प्रतिबोधनीयः विज्ञापनीयः त्वयेति शेषः । (१२) सा वृद्धा तापसी । तथा-तथास्तु इति प्रतिज्ञाय । राजकुलं नृपति- मन्दिरम् । उपसंक्रम्य गत्वा । प्रतिनिवृत्ता प्रत्यागता राजकुलादिति शेषः । मा- मुपहारवर्माणमित्यर्थः । चित्रपटः प्रतिकृतिः । मत्तकाशिन्यै वराङ्गनायै । चित्री- यमाणा-आश्चर्यम्मन्यमाना । असौ राजपत्नी । सनाधीकृतं नाथवद् विहितम् । कुसुमधन्वनि-कामे । वपुः श्रीः-शरीरकान्तिः । न संनिधत्ते-न समीपमायाति नास्तीत्यर्थः । चित्रं चित्रपटः । तं तादृशं पुरुषम् । अवैमि जानामि पश्यामीत्यर्थः । ईदृशं अतिसुन्दरमित्यर्थः । इदं चित्रम् । इह्त्यः एतद्देशस्थः । निर्मिमीते चित्र- करके वह रानी अवश्य कहेगी कि क्या इस प्रकारके रूपवाला कोई पुरुष है ?' तब तुम उस रानीको प्रत्युत्तर देना कि 'यदि हो तो, क्या करनेकी आज्ञा है?' इस प्रत्युत्तरका जो उत्तर हो वह तुम मुझसे आ करके कहना । (१२) उस वृद्धा माताने 'तथा' ठीक है ऐसा स्वीकार किया और राजमन्दिर में चली गई। और वहांसे लौटनेपर उस वृद्धाने मुझसे एकान्तमें निवेदन किया—'हे वत्स ! मैंने यह चित्रपट उस सुन्दर अङ्गोवाली रानीको दिखाया। आश्चर्यमन्यमाना उस रानी कल्पसुन्दरीने कहा—'इस लोकको इस पुरुषने सनाथ कर दिया है तन्न इसके मुका- बिले सौन्दर्य कामदेवके शरीरमें भी सन्निहित नहीं है। अथवा चित्रपट देख करके रानीने अपने मनमें उस चित्रगत पुरुषको पतिके समान मान लिया। यह चित्र अत्यन्त आश्चर्यकारी है। मुझको मालूम नहीं होता कि ऐसे चित्रका रचयिता कोई पुरुष इस